________________
जैनतत्त्वसार
पंचमोऽधिकारः
॥ २४ ॥
तथापि सुप्तस्य नरस्य सौख्यं, वाच्यं यथा स्याद् भुवि तद्वदेव ॥१२॥ जाग्रत्सु सिद्धेषु सदैव सौख्य, विनेन्द्रियद्वैतसमुत्थभोगम् । यद्वा हि योगी निजकात्मबोधा-मृतं पिबन्नस्मि सुखीति मन्ता ॥ १३ ॥ तथा च कोऽपीह मुनिर्यथोक्तः, सन्तुष्टिपुष्टो विजितेन्द्रियार्थः । अन्येन पुंसा परिपृच्छ्यते चेत्, त्वं कीदृशोऽसीति सुखी स जल्पेत् ॥ १४ ॥ तस्मिन् क्षणे तस्य न कोऽपि वस्तुनः, स्पर्शः संतो नैव च भुक्तियुक्तिः। गन्धग्रहो नो न च दृक्छती तदा, न पाणिपादादिभवा क्रियापि च ॥१५॥ तथापि सन्तोषवताहमस्मि, सुखीति भूयः प्रतिगद्यतेऽतः।
तज्ज्ञानसौख्यं हि स एव वेत्ति, न ज्ञानहीनो गदितुं समर्थः ॥१६॥ टीका-ज्ञानस्य सुखस्वरूपत्वे दृष्टान्तमाह-यथेहेत्यादिना ' यथा'-येन प्रकारेण, 'इह '-अस्मिन् लोके, संसारे, 'किले 'ति निश्चये, 'ज्वरादिवाधाविधुरः'-जरादीनां रोगाणां बाधया पीडनेन विधुरो व्याकुलः, 'कश्चित् '-कोऽपि, 'अङ्गी'-प्राणी, 'कदाचित् '-कस्मिंश्चित्समये, 'निद्रां प्रकुर्वन् '-शयनं कुर्वन् शयान इति यावत् भवति ' इति' शब्दो
१. ज्ञानवत्सु । २. क्रियेन्द्रियबुद्धीन्द्रिययुग्मोत्पन्नभोगं विनैव । ३. शान । ४. सुखी वा दुःखी वा च कीदृशोऽसीति पृष्ट । ५. उत्तमस्य । ६. न च तदा सत उत्तमस्य वस्तुनः किश्चिद् दर्शनं न च श्रवणमित्यर्थः । ७. भृशं ।
USAGAUSHAR E
॥ २४ ॥