SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ स्मनां संसारपृथक्त्वेन निष्क्रियत्वमुद्घोषितम् ॥ ९॥ विनेन्द्रियैरपि सिद्धानामनन्तसौख्यमष्टभिः श्लोकैराहमूलम्-सिद्धेषु पूज्या ! न किल क्रियेन्द्रियं, बुद्धीन्द्रियं नो न च किञ्चनाङ्गम् । अनन्तसौख्यं कथमाप्यते तै-यज्ज्ञानमेतेषु तदेव सौख्यम् ।। १०॥ टीका-सिद्धानां सुखभोगविषये प्रश्नयति-सिद्धेष्वित्यादिना ' हे पूज्याः!'-हे पूजनीयाः!, 'किले 'ति-स्ववार्तायाम् , ' सिद्धेषु'-सिद्धात्मसु, ‘क्रियेन्द्रियं '-कर्मेन्द्रियं हस्तादिकमित्यर्थः, नास्ति, 'बुद्धीन्द्रियं '-ज्ञानेन्द्रियं चक्षुरादिकमित्यर्थः, 'नो'-नैवास्ति, 'च' शब्दः समुच्चये, 'किश्चन '-किमपि, 'अङ्गं'-मुखादिकं, न अस्ति तर्हि ' तैः'सिद्धात्मभिः, 'अनन्तसौख्यम्'-अन्तरहितं सुखं, 'कथं'-केन प्रकारेण, 'आप्यते '-प्राप्यते लभ्यते इति यावत् अस्योतरमाह-यदित्यादिना 'एतेषु'-सिद्धात्मसु, यद्ज्ञानं अस्ति 'तदेव ''सौख्यं '-सुखमुच्यते ॥१०॥ ___ मूलम्-यथेह लोके किल कश्चिदङ्गी, ज्वरादिबाधााविधुरः कदाचित् । निद्रां प्रकुर्वन्निति तंजनैस्तु, सुखं करोत्येष न बोधनीयः ॥११॥ इत्युच्यते तस्य न तत्रं किंश्चि-च्छ्रोतःसुखं नापि क्रिया निरीक्ष्यते ॥ १. पीडितः । २. तस्य निद्राणनरस्य तदीयस्वकबन्धुजनैः । ३. जागरणीयः । ४. निद्रावस्थायां । ५. इन्द्रियसुखं । ६. क्रिया करपादादिसमुद्भूता ।
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy