________________
जैनतत्त्वसार
पंचमोऽधिकारः
॥ २२॥
टीका-अस्योत्तरमाह-सत्यमित्यादिना 'सत्य'मिति-तव कथनं सत्यमस्तीत्यर्थः, परन्तु 'यतः'-यस्मात् कारणात् , 'तैजसेत्यादि '-तैजसकार्मणनामकशरीरसंबंधस्य, 'विनाशभावः'-विनाशत्वम् अस्ति, तेन'-कारणेन, 'सुकर्मणां'सुष्टु कर्मणाम् , 'गृहीत्ययोगात्'-ग्रहणस्य (अ)संबन्धात सिद्धात्मानः कर्माणि न लान्तीति पंचमहाव्रतस्य वाक्यानुषञ्जनं प्रति हेतु(तुः) वेदितव्यम्(व्यः), द्वितीय हेतुमाह-ज्योतिरित्यादिना 'ज्योतिश्चिदानन्दभरैश्चेति'-ज्योतिर्भरेण चिद्भरेणानंदभरेण चेत्यर्थः, करणे तृतीया, 'तृप्त्याः ' तृप्तिभावात्, तृतीयं हेतुमाह-सुखेत्यादिना 'सुखासुखयोः'-सुखदुःखयोः, 'प्रापणस्य'प्राप्तेः, 'हेतु:'-कारणं, यः कालः स एव 'प्रयोक्ता'-प्रेरणकर्ता, तस्य 'अभावाद्'-अविद्यमानत्वात् , कालग्रहणमुपलक्षणं तेन स्वभावादीनामपि ग्रहणं वेद्यम् सुखदुःखप्राप्तिहेतुभूतानाम् प्रेरकाणां कालादीनामभावादित्यर्थः, चतुर्थ हेतुमाह-अथेत्यादिना 'अथ' शब्दः समुच्चये, 'निष्क्रियत्वात्'-क्रियारहितत्वात् सिद्धात्मनाम्, पञ्चमं हेतुमाह-यद्वेत्यादिना 'यद्वा'-अथवा, 'तेषां - सिद्धात्मना, 'सुखान्यपि'-सौख्यान्यपि, 'अनन्तानि'-अन्तरहितानि, ' भवन्ति'-वर्तन्ते, 'अमूनि'-प्रस्तूयमानानि कर्माणि | तु, 'सान्तानि'-अन्तसहितानि भवन्ति, इतीवेतिहेतोरित्यर्थः, 'कर्म तत्सौख्यभरस्य'-सिद्धानां सौख्यसमृहस्य, 'हेतुर्भवेनो'हेतुर्न भवितुं शक्नोतीत्यर्थः, कुत इत्याह-यदित्यादि ' यत्'-यस्मात् कारणात् , 'अतुल्यमानादिति '-तुल्यपरिमाणाभावादित्यर्थः, फलितमाह-इत्यादिकरित्यादिना 'इत्यादिकैः'-एतत् प्रभृतिभिर्हेतुभि:-कारणैः एव, नित्या अविचलस्थिरैकस्वभावाः 'सिद्धात्मानः'-सिद्धजीवाः, ' ही 'ति निश्चये, 'कर्माणि ' ' न लान्ति'-न गृह्णन्ति ॥ ३-५ ॥
मूलम्-लोके यथा क्षुत्तृषया विमुक्ता-त्मानः सुतृप्तस्य न तृप्तिकालं ।
*
॥ २२ ॥