SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ जितेन्द्रियस्याप्यथ योगिनोऽपि, तुष्टस्य किश्चिद्धहणे न वाञ्छा ॥६॥ यद्वा न पात्रे परिमाति किश्चित् , पूर्णे तथा सिद्धिगता हि सिद्धाः। सदा चिदानंदसुधाप्रपूर्णा, गृह्णन्ति नो किश्चिदपीह कर्म ॥७॥ टीका-पुनदृष्टान्तद्वारेण सिद्धानां कर्माग्राहित्वमाह-लोके यथेत्यादिना — यथा'-येन प्रकारेण, ‘लोके '-संसारे, 'क्षुत्तृषया '-बुभुक्षया पिपासया च, 'विमुक्तात्मनः '-विमुक्तस्य जीवस्य, अत एव 'सुतृप्तस्य'-सम्यक्तया वृप्तिमवाप्त| स्य, ' तृप्तिकालं'-तृप्तिकालमर्यादा न भवति, 'अथे 'ति-अनन्तरे, 'तुष्टस्य '-सन्तोषं प्राप्तस्य, 'जितेन्द्रियस्यापि'| इन्द्रियजितोऽपि, योगिनोऽपि '-योगकर्तुरपि, 'किश्चिद् ग्रहणे'-कस्यापि वस्तुन आदाने, 'वाञ्छा'-अभिलाषो न भवति, 'किश्चिद् ' इति क्रियाविशेषणम् वावगन्तव्यम् , 'यद्वा'-अथवा, 'पूर्णे'-भृते, 'पात्रे'-भाजने, 'किञ्चित् 'किमपि, 'न परिमाति'-नांतः प्रविशति, ' तथा '-तेनैव प्रकारेण, ' ही 'ति निश्चये, 'इह'-अस्मिन् लोके सिद्धान्ते वा, 'सिद्धाः'-सिद्धात्मानः, 'किश्चिदपि '-किमपि कर्म, 'नो गृहंति '-नाददते, कथंभूताः सिद्धाः ? 'सदा'-सर्वदा, 'चिदानंदसुधाप्रपूर्णाः'-ज्ञानामृतेन आनंदामृतेन च परिपूर्णाः ॥ ६-७॥ मूलम्-तथा च सिद्धेषु सुखं यदस्ति, तैवेद्यकर्मक्षयजं वदन्ति ।। तत्कर्म हेतुर्न हि सिद्धसौख्ये, यत्कर्म सान्तं सुखमेष्वनन्तम् ।। ८॥ १. तत् सुखं सातासातवेदनीयद्वयकर्मक्षयनाशभवं । २. तस्मात्कारणात् ।
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy