SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ कथंभूताः सिद्धा जीवाः? 'अनन्तचतुष्टयेद्धाः'-अनंतज्ञानानंतदर्शनानंतसुखानंतवीर्यलक्षणानंतचतुष्टयेन प्रदीप्ताः प्रसिद्धा वा, पुनः कथंभूताः ? 'परमेष्ठिसंज्ञाः'-परमे पदे तिष्ठन्तीति परमेष्ठिनः सैव संज्ञा नाम येषां ते, 'तथा' 'ते सिद्धात्मान:सिद्धजीवाः, 'कर्माणि' 'कथं न समाददन्ते '-कुतो न गृह्णन्ति समाङ्पूर्वो ददिरयं भौवादिकः, 'तत्'-तस्मात् कारणात् , 'सौख्यसत्चात् '-सुखभावात् , ' सुकर्माणि '-सुष्टु कर्माणि, 'लातां'-गृह्णताम्, 'एषां '-सिद्धजीवानामपि, 'का निषेधकः' का निवर्त्तकोऽस्ति ? ॥ १-२॥ मूलम्-सत्यं यतस्तैजसकार्मणाख्य-शरीरयोगस्य विनाशभावः । सुकर्मणां तेन गृहीत्ययोगा-ज्योतिश्चिदानन्दभरैश्च तृप्त्याः ॥ ३ ॥ सुखासुखप्रापणहेतुकाल-प्रयोक्त्रभावादथ निष्क्रियत्वात् । यद्वाप्यनन्तानि सुखानि तेषां, कर्माणि सान्तानि भवन्त्यमूनि ॥४॥ इतीव तत्सौख्यभरस्य कर्म, हेतुर्भवेन्नो यदतुल्यमानात्। इत्यादिकहेंतुभिरेव सिद्धा-स्मानो न कर्माणि हि लांति नित्याः ॥५॥ १. तेन तैजसकार्मणलक्षणकर्मग्रहणयोग्यशरीराभावेन शोभनकर्मणां ग्रहणस्यायोगादसम्बन्धादभावादित्यर्थः सिद्धात्मानो न कर्माणि लान्तीत्युत्तरसूत्रेण सम्बन्धः एवं सर्वैरपि हेतुभिर्वाक्यपरिसमाप्तिः कर्त्तव्येति । २. सिद्धजीवानां । ३. तेषां सिद्धात्मनां यदनन्तं सौख्यं तद्भरस्य ।
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy