________________
जैन
तरवसार
॥ २१ ॥
॥ अथ पञ्चमोऽधिकारः ॥
सिद्धानाम् कर्माग्रहणं नवभिः श्लोकैर्वर्णयति -
मूलम् - वेदाश्रयाश्रेयकभाव एवं सिद्धोऽस्ति कर्मात्मकयोरवश्यम् ।
जीवास्तु सिद्धा अपि सन्त्यनन्त चतुष्टयेद्धाः परमेष्ठिसंज्ञा (ः) ॥ १ ॥ पृच्छामि पूज्याः ! खलु तर्हि सिद्धा-त्मानो न कर्माणि समाददन्ते । कथं तदेषामपि सौख्यसत्त्वा-लीतां सुकर्माणि निषेधकः कः १ ॥ २ ॥
टीका – यदि कर्मात्मनोराधाराधेयभावः सिद्धस्तर्हि सिद्धात्मानः कथं न कर्म गृहणंतीति श्लोकद्वयेनाह - चेदित्यादि ' हे पूज्याः ! ' - पूजनीयाः !, अहमेतत् 'पृच्छामि' - प्रश्नं करोमि, 'यत्' चेद्यदि, 'एवम् ' -उक्तरीत्या, ' कर्मात्मकयोः 'कर्मजीवयोः, ' अवश्यं '- निश्चयेन, 'आश्रयाश्रयकभावः '- आधाराधेयभावः, ' सिद्धः - निष्पन्नोऽस्ति, ' तर्हि ' - तदा, ' खल्वि'ति-निश्चये, 'सिद्धाः ' - सिद्धं (द्धि) गता अपि, ' जीवाः ' - आत्मानः, ' सन्ति ' - वर्तन्ते, ' तु' शब्दश्चरणपूर्ती,
१. आधाराधेयभावः । २. अनन्तज्ञानानन्तदर्शनानन्तसुखानन्तवीर्यलक्षणानन्तचतुष्टयेनेद्धाः दीप्ताः प्रसिद्धा वा । ३. परमे पदे तिष्ठन्तीति परमेष्ठिनः सैव संज्ञा येषां ते तथा । ४. समाददन्ते समाङ्पूर्वी ददिरयं भौवादिकः गृह्णन्तीति । ५. तत्तस्मात् कारणात् एषां सिद्धजीवानामपि कर्माणि गृहणताम् । ६. गृह्णताम् ।
पंचमोऽधिकारः
॥ २१ ॥