SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ जैनतत्त्वसार चतुर्थोऽधिकार ॥ २० ॥ AKAKKARKAHA%AGAR जीवः, 'ईदृशं'-पूर्वोक्तलक्षणं, “वपुः '-शरीरं, 'दधाति'-धत्ते, कथंभूतो भवी ? ' अदृश्य एव'-दृष्टुमयोग्य एव, कथंभूतं वपुः १ ' संदृश्यमानं '-दृष्टेविषयम् , तर्हि ' ही 'ति निश्चये, ' असौ'-अयम् , ' अरूपिरूपिद्वयसंगमः'-अरूपी जीवो रूपीणि देहतदाश्रिताङ्गकर्मक्रियादीनि शेषपोषस्निग्धरूक्षादिदेहधर्मा वा तेषां यद्वयं युगलं तस्य सङ्गमः -संबन्धः, 'विचार्यमाण:'-चिन्त्यमानः सन् , ' कौतुकं'-कुतूहलं, 'न कुरुते ' कौतूहलं कुरुत एवेति भावः ॥८॥ मूलम्-कर्पूरहिङ्ग्वादिकसुष्टुदुष्टु-वस्तूत्थगन्धा गगनं श्रिता यथा। तिष्ठन्ति यावस्थिति तद्वदेव भोः, कर्माणि जीवं परिवृत्य सन्ति ॥९॥ टीका-जीवस्य कर्मभिरावृतत्वे दृष्टान्तमाह-कर्पूरेत्यादिना 'कर्पूर'-घनसारः, हिंगुरामठम् इत्यादिकानि सुष्टुदुष्टु च वस्तूनि तेभ्य 'उत्था'-उत्पना ये गंधाः, 'यथा'-येन प्रकारेण, 'यावस्थिति'-स्थितिकालपर्यन्तम् , 'गगनम् - आकाशं, 'श्रिताः'-आश्रिताः तिष्ठन्ति तद्वदेव'-तथैव, 'भो' इत्यामंत्रणे, 'कर्माणि ' ' जीवम् '-आत्मानं, 'परिवृत्य '-आवृत्य, 'सन्ति '-तिष्ठन्ति ॥ ९॥ मूलम्-इत्यादिभिईष्टनिदर्शनैस्तथा-गुणात्मकैः कर्मभिरेष आत्मकः । ___ आश्रीयते निर्गुणकोऽपि निश्चित-मात्मा ततः कर्मचितो भवी भवेत् ॥१०॥ १. यावत् कालं यस्य यादृशी स्थितिवर्तनं स्थितिकालमित्यर्थः। २. आश्रित्य । ३. दृष्टान्तः । ४. स्वरूपैः । ५. युक्तः। ६. कर्मयुक्तो भवी संसारी भवेत् कर्ममुक्तस्तु तव्यतिरिक्तः सिद्धो भवेदिति व्यतिरेकद्वारेण पूरणीयं । ACCRACAASAXSE ॥
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy