SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ अमी' पूर्वोका परिहर्तुमाह-मा बोचाइला-स्ततो वामन गतपंचके धान, 4%AASANSAR Mi विषयाः, एते सर्वे आत्मनैव क्रियन्ते । फलितमाह-' किं कि 'मित्यादिना तर्हि 'अयं'-प्रस्तूयमानः, 'वपुर्गतोऽपि'शरीरे स्थितोऽपि आत्मा, 'अत्र'-अस्मिन् संसारे, 'किं किं न धत्ते'-किं किं न दधाति, सर्वमेव दधातीति भावः ॥६॥ मूलम् मा वोच एतद्धि शरीरजा गुणा, अमी यतोऽस्मिन् गतपंचके घने । दृश्यन्त ऐते न हि केचनाश्रिता-स्ततो वपुर्गा न गुणास्तु जीवगाः॥७॥ टीका-अत्र शंका परिहर्तुमाह-मा वोच इत्यादि 'हि' शब्दश्वरणपूत्तौं, 'एतद् '-वक्ष्यमाणं, ‘मा वोचः'-मा बहि, 'यत् ' 'अमी'-पूर्वोक्ता गुणाः, 'शरीरजाः'-शरीरेण जन्याः, सन्ति, कुत इत्याह-यदि(यत इत्यादि 'यतो'-यस्मात् कारणात, 'गतपंचके -जीवरहिते, (अस्मिन्)'घने'-शरीरे, 'एते'-पूर्वोक्ताः 'केचन'-केपि, 'आश्रिताः-आधेयभूताः गुणाः, 'न हि दृश्यन्ते '-नावलोक्यन्ते, 'तत् (तः)'-तस्मात् कारणात्, 'एते '-गुणाः, 'न वपुर्गाः'-शरीरजन्याः न सन्ति, 'तु'-किन्तु, 'जीवगाः'-जीवस्था गुणा इति ॥ ७॥ मूलम्-संश्यमानं पुनरीदृशं वपु-रदृश्य एवैष भवी दधाति चेत् । अरूपिरूपिद्वयसङ्गमो ह्यसौ, विचार्यमाणः कुरुते न कौतुकम् ॥ ८॥ टीका-उक्तविषयमेव दृढयति-संदृश्यमानमित्यादिना 'पुनः' चेद्यदि, 'एषः'-प्रस्तूयमानः ‘भवी'-भववर्ती १. शरीरे । २. गुणाः । ३. अरूपी जीवः रूपीणि देहतदाश्रिताङ्गकर्मक्रियादीनि शोषपोषस्निग्धाक्षादिदेहधर्मा वा तेषां यद्वयं युगलं तस्य सङ्गमः सम्बन्धः । %A5%254555523 न्तु, 'जीवगायन्ते तत् (तः) तस्माते 'पर्वोक्ताः कचनेर यत
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy