SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ * 64 चतुर्थोऽधिकारः पुनः कस्याधारम् ? ' अमूर्तिमतः '-अमूर्तस्य सिद्धधर्माधर्मास्तिकायादेरित्यर्थः, 'च' शब्दः समुच्चये, फलितमाह-अर्थस्येत्यादिना 'यथा'-येन प्रकारेण, 'विचक्षणाः'-विद्वांसः, 'अविनश्वरम् ' अविनाशि, तथा 'महत् '-बृहत् नमः, 'आधारम्'-आश्रयम् , 'आख्यन् '-कथितवन्त, 'सर्वस्यार्थस्य '-सर्वद्रव्यस्य, धर्माधर्मपुद्गलास्तिकायलक्षणस्येत्यर्थः, 'तथा'-उक्तप्रकारेण, 'एषः'-प्रस्तूयमानः, 'आत्मा'-जीवः, ' सर्वाणि '-सकलानि, 'रूपीणि'-रूपयुक्तानि द्रव्याणि, 'अनारतं'-निरन्तरम् , 'कथं'-केन प्रकारेण, 'वहति'-दधाति इति त्वं विचारय । कथंभूतं(तः) आत्मा? 'न रूपवानपि'रूपरहितोऽपि । यथा प्रलयकाले विश्वं जगत्कर्ता यथा च नभो गुर्वादीनि वस्तूनि दधाति तथैवारूप्यप्यात्मा सर्वाणि रूपीणि द्रव्याणि दधातीति भावः ॥ ४-५॥ मूलम्-मिथ्यात्वदृष्टिभ्रमकर्ममत्सराः, कषायकन्दर्पकला गुणास्त्रयः। क्रियाः समग्रा विषया अनेकधा, किं किं न धत्तेऽत्र वपुर्गतोऽप्ययम् ॥६॥ टीका-अत्र पुनः पुष्टिमाह-मिथ्यात्वेत्यादिना 'मिथ्यात्वदृष्टि(:)-मिथ्यात्वयुक्तं दर्शनम् , 'भ्रमो'-भ्रान्तिः, 'कर्ममत्सराः'-कर्मविषया मत्सराः, अन्येऽशुभद्वेषाः, 'कषायाः'-क्रोधादयः, कंदर्पः '-कामः, 'कलाः'-चतुःषष्टिसंख्याकानि कौशलानि, 'त्रयः'-त्रिसंख्याका गुणाः सत्वादयः, 'समग्राः '-सर्वाः, 'क्रियाः'-चेष्टार, 'अनेकधा'-नानाविधा १. पुरुषत्रीसम्बन्धिसर्वकलामीलने (७२-६४) १३६ कला भवन्ति । २. सत्वादयः । ३. आत्मा ।
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy