________________
OCALCORRESPONS
मतेनापि कर्मरूपगुणाश्रयत्वमात्मन उपदर्शितम् ॥ ३ ॥ मूलम् तदा यथा भूतगणा गुणाश्च, स्थास्यन्ति लीना ननु कर्तृनाम्नि ।
यद्वा नभोऽमूर्त्तमिदं गुरोर्लघो-मूर्तस्य चौमूर्तिमतो निरंतरम् ॥ ४ ॥ अर्थस्य सर्वस्य यथा विचक्षणा, आधारमाख्यन्नविनश्वरं महत् ।
कथं तथात्मैष न रूपवानपि, रूपीणि सर्वाणि वहत्यनारतम् ॥५॥ ___टीका-लोकद्वयेनोक्तविषये सदृष्टान्तं पुष्टिमाह-तदेत्यादिना 'तदा'-तस्मिन् काले, कल्पान्तकाले इत्यर्थः, 'यथा'येन प्रकारेण, 'भूतगणाः '-पृथिव्यादय इत्यर्थः, 'गुणाचे'ति-भूतानां गुणाः-गन्धस्पर्शादयः सत्वादयो वा, 'नन्वि 'तिनिश्चये, ' कर्तृनाम्नि '-कर्तृनामके विष्णौ ब्रह्मणि वेत्यर्थः, लीनाः'-स्थायिनः, 'स्थास्यन्ति'-भविष्यन्ति, यद्वेत्यादि 'यद्वा'-अथवा, 'इदं '-प्रसिद्धं, 'नभः'-आकाशं, निरन्तरम् अतिशयेन आधारमस्ति, कथंभूतं नमः ? ' अमृतं'मृतिविरहितम् , कस्याधारमित्याह-गुरोरित्यादि 'गुरोः'-गरिष्ठस्य धराधरादिरूपिद्रव्यस्येति भावः, पुनः कस्याधारं ? 'लघोः'-लघिष्ठस्य घनवातादिरूपिसूक्ष्मद्रव्यस्येत्यर्थः, पुनः कस्याधारं ? ' मूर्तस्य '-मूर्तिमतः सर्वरूपिद्रव्यस्येति भावः,
१. विष्णुनाम्नि ब्रह्मनाम्नि वा । २. गुरोर्गरिष्ठस्य धराधरकारस्कराम्भोधिरूपरूपिद्रव्यस्य । ३. (लघोः) लघिष्ठस्य घनवाततनुवातपरमाणुत्रसरेण्वर्कतूलादिरूपरुपिसूक्ष्मद्रव्यस्य । ४. मूर्तस्य सर्वरूपिद्रव्यस्य । ५. अमूर्तस्य सिद्धधर्माधर्मास्तिकायादेः । ६. द्रव्यस्य । ७. सर्वस्य द्रव्यस्य सर्वस्य धर्माधर्मजीवपुद्गलास्तिकायलक्षणस्य । ८. द्रव्याणि । ९. वस्तूनि ।