________________
जैन
तत्वसार
॥ १७ ॥
टीका - तर्हि कर्मसमूहं कोऽपि जानाति न वेति शङ्कां परिहर्तुम् आह-ज्ञानेनेत्यादि ' एवमि 'ति एवं च सतीत्यर्थः, 'अयं'- प्रसिद्ध्या सर्वविज्ञातः, 'केवली'- केवलज्ञानयुक्तः, ' एवं '- प्रस्तूयमानं, 'कर्मोच्चयं'- कर्मसमूहं, 'ज्ञानेन ' - ज्ञानद्वारा, ' जानाति ' - बुध्यते, ' तु' शब्दोऽन्यव्यच्छेदार्थः, कथंभूतं कर्मोच्चयं ? ' जीवगतं '- जीवप्रदेशेषु व्याप्तम्, कथम् अन्यो न जानातीत्याह-यथा पुनरित्यादिना ' यथा पुनः ' - यथा च, 'सिद्धरसात् ' - औषधैः सिद्धो यो रसः पारदः तस्मात्, 'निपीतं ' ' स्वर्णादि ' - सुवर्णादि भवति, परन्तु ' तत्र ' - तस्मिन् स्थले, ' दृशा '-नेत्रेण, ' नो अभिदृश्यते ' - नावलोक्यते ॥ ३२ ॥ मूलम् - यदा तु कश्चिद्रससिद्धयोगी, कर्षेयदेतन्ननु तस्य सत्ता ।
एवं हि कर्माण्यपि जीवगानि, ज्ञानी विजानाति न चापरोऽत्र ॥ ३३ ॥
टीका - ज्ञानविषये उक्तदृष्टान्तेनैव फलितमाह-यदा त्वित्यादिना 'यदा ' पस्मिन् काले, 'तु' ' कश्चित् ' - कोऽपि, ' रससिद्ध योगी' - रसः सिद्धो यस्य स तथा स चाऽसौ योगी चेति, 'एतद्' - स्वर्णादि, ' कर्षेत्' - रसादू बहिरा कृषेत्, 'तदा'तस्मिन् काले, ' नन्वि 'ति निश्वये, ' तस्य 'स्वर्णादेः सत्ताभावः बुध्यते, ' एवम् ' -उक्तप्रकारेण, ' हि ' शब्दश्वरणपूर्ती, ' अत्र ' - अस्मिन् संसारे, 'ज्ञानी' ज्ञानवान्, 'कर्माण्यपि '' विजानाति ' - अवगच्छति, ' न चापर ' इति ज्ञानिनमतिरिक्तान्यः (क्तोऽन्यः) कश्चित् कर्माणि न विजानातीत्यर्थः, कथंभूतानि कर्माणि ? ' जीवगानि' - जीवप्रदेशेषु व्याप्तानि ॥ ३३॥
अमूर्त्तस्याप्यात्मनो मूर्तकर्मग्रहण तत्पिण्डादर्शननिरूपणोक्तिलेशः तृतीयोऽधिकारः ॥
तृतीयोऽधिकारः
॥ १७ ॥