SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ त्वित्यादिना ' तु ' शब्दो व्यवच्छेदार्थः, 'ज्ञानी' - ज्ञानवांस्तु, 'भृशोदयात् ' - निरन्तरमुदयवशात्, 'सज्ज्ञानदृशः ' - सम्यग्ज्ञानरूपदृष्टेः, ' पश्येत् ' - अवलोकते, 'एतानि '- सूक्ष्मतमानि कर्माणि, ' यथे 'ति तथा वेत्यर्थः, ' अत्र ' - अस्मिन् विषये, ' एव ' शब्दश्चरणपूर्ती निश्चये वावगन्तव्यः, 'निदर्शनम् ' - दृष्टान्तं, ' शृणु ' - आकर्णय ॥ ३० ॥ मूलम् - पात्रे च वस्त्रादिषु गन्धपुद्गलाः, सौगंध्यदौगंध्यवतो हि वस्तुनः । ज्ञेया नसा ते न हि पिण्डभावं गता अपीक्ष्या नयनादिभिस्तु ॥ ३१ ॥ टीका — पात्रे चेत्यादिना प्रथमो हि ( : ) निश्वये द्वितीयश्चरणपूर्ती, ' पात्रे - भाजने, ' वस्त्रादिषु ' - वस्त्रप्रभृतिषु च, 'सौगंध्य दौगंध्यवतः ' - सुगंधदुर्गंधयुक्तस्य, 'वस्तुनः ' - पदार्थस्य, 'गन्धपुद्गलाः '-सुगंधदुर्गंधपरमाणवः, यद्यपि 'नसा'नासिकया, ' ज्ञेयाः ' ज्ञातुं योग्याः सन्ति, ' तु ' - परन्तु, ' ते ' - गन्धपुद्गलाः, 'पिण्डभावं गता अपि '- संघातीभावं प्राप्ता अपि, 'नयनादिभिः ' - नेत्रादिभिरिन्द्रियैः, न दर्शनीयाः भवन्ति । यदा सुगन्धदुर्गन्धपुद्गलाः पुद्गलात्मके पात्रादिके वस्तुनि स्थिता अपि नेत्रेण न दृश्यास्तदाऽपुद्गलात्मके आत्मन्यतिसूक्ष्माः कर्मपुद्गलाः नेत्रेण कथं दृश्या इति भावः ॥ ३१ ॥ मूलम् - ज्ञानेन जानात्ययमेवमेतं, कर्मोचयं जीवगतं तु केवली । त (य)था पुनः सिद्धरसान्निपीतं, स्वर्णादि नो तत्र दृशाभिदृश्यते ॥ ३२ ॥ १. यदि सुगन्धदुर्गन्धपुद्गलाः पुद्गलात्मके पात्रादिके वस्तुनि स्थिता न दृश्यास्तर्हि अपुद्गलात्मके आत्मनि अतिसूक्ष्माः कर्मपुद्गलाः कथं दृश्या इत्यर्थः । २. अयं प्रसिद्धया सर्वविज्ञातः केवली ।
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy