________________
तृतीयोऽ धिकार
६
अनतत्त्वसार
॥जीवसंलग्नकर्मणामदृष्टत्वं पञ्चश्लोकराह ।। मूलम्-कर्माणि जीवैकतरप्रदेशे-ऽप्यनन्तसङ्ग्यानि भवन्ति चेत्तदा।
कथं न दृश्यानि हि तानि पिण्डी-भूतानि दृष्ट्या निगदन्तु कोविदाः ॥२९॥ टीका-कर्मादर्शनविषये प्रश्नयति-कर्माणीत्यादिना 'चेत्'--यदि, 'जीवैकतरप्रदेशेऽपि'-जीवस्यैकैकस्मिन्नपि प्रदेशे, as 'कर्माणि' 'अनन्तसंख्यानि'--अनंता संख्या येषां तानि, 'तथा भवन्ति' 'तदा'-तर्हि, हीति चरणपूर्ती, 'पिण्डीभूतानि'-संघातमु.
पेतानि, 'तानि' पूर्वोक्तानि कर्मादि 'दृष्टया'-नेत्रेण, 'कथं'--केन प्रकारेण, न 'दृश्यानि'-द्रष्टुं योग्यानि सन्ति, इति कोविदाः-- विद्वांसः, 'निगदितुम्'-कथयितुम् , जीवैकतरप्रदेशेऽप्यनंतसंख्यानि स्थितानि पिण्डीभावं माप्तानि तानि कर्माणि नेत्रेण कथन S दृश्यन्त इतिभावः ॥२९॥
मूलम्-सत्यं कृतिन् ! सूक्ष्मतमानि तानि, पश्यन्ति नो चर्महशो हि मादृशाः।
ज्ञानी तु 'सज्ज्ञानहशो भृशोदया-त्पश्येद्यथात्रैव निदर्शनं शृणु ॥३०॥ टीका-अस्योत्तरमाह-सत्यमित्यादिना हे कृतिन् !'-सुकृतोपेत, 'सत्यमि'ति-तवोक्तकथनं सत्यमस्तीत्यर्थः, परन्तु 'तानि'-पूर्वोक्तानि, 'सूक्ष्मतमानि'-अतिशयेन सूक्ष्माणि कर्माणि 'मादृशाः'--मादृग् जनाः, 'नो पश्यन्ति'- नावलोकन्ते, हिशब्दवरणपूर्ती, कथंभूता मादृशाः १ 'चर्मदृशः'--चर्मनेत्रयुक्ताः, आन्तरिकदर्शनविहीना इत्यर्थः, तर्हि को द्रष्टुं शक्नोतीत्याह ज्ञानी
१. दृष्टेः ।
Deeeeee:60008680000ccee
aeeeeeeeeeeeeeeeeeeeeeeeel