SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ਓ 000 मूलम् -- विना जलैः पुष्पफलैश्च दीपैः, सद्भावपूजां सफलीकरोति । ध्यात्वाऽर्थ ब्रह्मापि च ब्रह्मवादी, न 'ब्रह्मतामेष लभेद्विना खै: ॥२७॥ टीका - पुनः किं करोतीत्याह - बिना जलैरित्यादि 'जलैः ' - उदकैः, 'पुष्पफलैः ' -कुसुमैः फलैश्व, 'दीपैः' - दीपकैश्च विना, 'सद्भावपूजां'– सद्भावसंबंधिनीमच, 'सफलीकरोति' - सफलां विदधाति, ध्यात्वेत्यादि अथापि येति अन्यच्चेत्यर्थः, 'एप' - विवक्षितः, 'ब्रह्मवादी' - ब्रह्मध्याता, 'ब्रह्म ध्यात्वा' - ब्रह्म चिन्तयित्वा 'खैः विना' - इन्द्रियैर्विना, 'ब्रह्मतां' - ब्रह्मत्वं, 'न लभेत्' - न प्राप्नुयात् क्रिया परस्मैपदं चिन्त्यम् काकूक्तिरियं तेन ब्रह्मत्वं लभत एवेति भावः ||२७|| मूलम् - जीवोऽयमेवं करणैः करादिभिर्विनैव कर्माणि समाश्रयत्यलम् । अचिन्त्यशक्त्या नियतिस्वभाव-कालैश्च जात्या च कृतप्रणोदः ||२८|| टीका - दृष्टान्तं दाते घटयति-भीवोऽयमित्यादिना 'एवम्' -उक्तरीत्या 'अयं -- प्रस्तुतो जीव आत्मा, 'करण:'-- इन्द्रियैः, 'करादिभिः ' - हस्ताद्यवयवैः, 'विनैव' - अलं पर्याप्तत्वेन, 'कर्माणि'--'समाश्रयति' - आधत्ते, कथंभूतो जीवः ? 'अचिन्त्य - शक्त्या' - अविचार्य सामर्थ्येन, 'नियतिस्वभाव कालैश्चेति' -- नियत्या स्वभावेन कालेन चेत्यर्थः, 'जात्या चे 'ति -- तथाविधनरजन्मादिना चेत्यर्थः, 'कृतप्रणोदः -- कृतप्रेरणः, अचिन्त्यसामर्थ्येन नियत्या स्वभावेन कालेन जात्या च प्रेरितो जीवः कर्माणि समाश्रयतीति भावः ॥ २८॥ १. एष ब्रह्मवादी ब्रह्मध्याता । २. इन्द्रियः । ३. तथाविधनरजन्मादिना । ४. प्रेरणः । 14969669493:9454549496900900
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy