________________
तृतीयोऽ
जैन तत्वसा टीका-फलितमाह-सिमित्यादिना 'तथेति-तथा च सतीत्यर्थः, 'एतद्'-वक्ष्यमाणं, 'सि'-सिद्धिमुपागतम् , किं
धिकार तत् सिद्धमित्याह-यदित्यादि 'यत्'-अत्र, 'अशस्तशस्तं कर्म'-शुभाशुभम् कृत्यम् , 'आत्मना'-जीवेन, 'एव' 'क्रियते'-विधी* यते, 'न चाङ्गै'-कर्णादिकेन्द्रियरूपैः पाणिपादादिकैश्चावयवैन क्रियत इति भावः, 'ततश्चेति'-तथा च सति, 'अरूपिणा'-रूपरहि
तेन जीवेन, 'तत्'-पूर्वोक्तं कर्म 'कथं नाम न गृह्यते ?'-कुतो नादीयते आदीयत एवेत्यर्थः, कथंभूतं कर्म ? 'रूपि'-पुद्गलमयत्वान्मूर्तम् , पुनः कथंभूतं ? 'सूक्ष्म-स्थौल्यविरहितम् ॥२५॥
मूलम्--ध्यानी पुनवाह्यगतेन्द्रियैर्विना, करोति कर्माणि यथेप्सितानि यत् ।
जिह्वां विना ध्यायति मानसं जपं, शृणोति तं तं 'श्रवसी ते तदा ॥२६॥ टीका-इन्द्रियादिभिर्विनापि जीवस्य कर्मविधाने शक्तिरस्तीति दृष्टान्तैः स्पष्टीकरोति-ध्यानीत्यादिना 'पुन' रितिसमुच्चये, 'ध्यामी'-ध्यानकर्ता, 'यत्'-यस्मात् कारणात् , 'बाह्यगतेन्द्रियविना'-बाडेंद्रियाण्यंतरेणाऽपि, 'कर्माणि'-कार्याणि, R'करोति'-विधत्ते, कथंभूतानि कर्माणि ? 'यथेप्सितानि'-यथाभीष्टानि स्वाभिलपितानीति, यावत् पुनः किं करोतीत्याह-'जिह्वांविना'-रसनामंतरेणापि, 'मानसं जपं'-मनः संबंधि जपनम् , 'ध्यायति'-चिन्तयति, पुनः किं करोतीत्याह-शृणोतीत्यादि 'तदा'-10 तस्मिन् काले, जपसमये इत्यर्थः, 'श्रवसी ऋते'--कौँ विनाऽपि, 'तं तं शृणोति'-जपादिकमारम्भमाकर्णयीत ॥२६॥
१. जापादिकं भारम्भ । २. तस्मिन्जापसमये अन्तरात्मनैव श्रवसी कर्णादि विनव शृणोत्ययमात्मा ।
8686069008969696969696969
Deeeeeeeeeeeeeeece@eCeer
LDI ॥१५॥