SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ स्वान्मूर्तम् , क्व प्रवर्तयेदित्याह-'आहारपानादिके-भोजनपानादिषु, कथंभूने आहारपानादिके ? 'इन्द्रियार्थके-इन्द्रियविषयरूपे, पुनः क्व प्रवर्त्तयेदित्याह-'शुभाशुभारम्भककर्मणि'-शुभाशुभोत्पादके कार्य ॥२३॥ मूलम्-चेदिन्द्रियैः 'पाणिमुस्वैरथाङ्गैः, समाः क्रियाः स्युर्भविनं' विनैव । तदा समस्ताः कुणपैरजन्तुकैः, क्रियाः क्रियन्ते न कथं करेन्द्रियैः ॥२४॥ टीका-जीवाभावे न प्रवृत्तिरित्याह-चेदिद्रियरित्यादि 'भविनं विनैव'-जीवमंतरेणैव, 'इंद्रियैः'-श्रोत्रादिभिः 'अथे'तिसमुच्चये, 'अब' चेत् , 'पाणिमुखैः-हस्तादिभिः 'अंगैः'-अवयवैः, 'समाः'-सर्वाः, 'क्रिया-चेष्टाः, 'स्युः'-भवेयुः, 'तदा' तर्हि, 'अजन्तुकैः'-जीवरहितैः, 'कुणपैः'-मृतकैः, 'करेन्द्रियैः'-हस्तादींद्रियः, 'समस्ताः'-सर्वाः, 'क्रियाः'-चेष्टाः, 'कथं न प्रक्रियन्ते ?"-कुतो न विधीयन्ते ? यदि जीवं विनैव करादिभिः सर्वाः क्रिया भवितुं शक्नुयुस्तहि जीवरहिता मृतकाः करादिभिः का सर्वाः क्रियाः कथन कुर्वन्तीति भावः ॥२४॥ मूलम्-सिद्धं तथैतद्यदशस्त'शस्तं, कर्मात्मनैव क्रियते न 'चाङ्गैः। अरूपिणा रूपि ततश्च कर्म, सूक्ष्मं कथं नाम न गृह्यते तत् ॥२५॥ १. हस्तादिकैः । २. अवयंवैः । ३. भवोऽस्यास्तीति भवी जीवस्तं । ४. मृतकः । ५. अशस्तं कषायमत्सरनिन्दादोहशोकमोहादिकं कर्म तथा मलोज्झनादि वा कर्म, शस्तं च कर्म ज्ञानादिरसग्रहणध्यानादिसम्पादनगुणग्रहणभगवत्स्मरणाद्यने । ६. अझै कर्णादिकेन्द्रियरूपः पाणिपादादिकैश्चावयवैरिति । 0000000000000000000000000
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy