________________
॥ अथ चतुर्थोऽधिकारः॥
जीवकर्मणोराधाराधेयसम्बन्धं श्लोकदशभिराहमूलम्-कर्माणि मूर्त्तान्यसुमानमूर्तः, साकृत्यनाकृत्यभियुक्तिरेषा ।
न्याय्या कथं येन हि वस्तु भिन्नं, नाधारकाधेयकता लभेत ॥१॥ टीका-जीवकर्मसंयोगविषये प्रश्नयति कर्माणीत्यादिना ' कर्माणि', 'मू नि'-मूर्तिमंति सन्ति, 'असुमान्'-आत्मा, 'अमूतों'-मूर्तिरहितः अस्ति, एवं च ' एषा'-प्रस्तूयमाना, 'साकृत्यनाकृत्यभियुक्तिः'-साकारनिराकारयोः संयोगा, जीवकर्मणोरभियोग इति भावः, 'कथं'-केन प्रकारेण, 'न्याय्या'-न्यायोपेता, अस्ति, 'ही'ति-निश्चये, 'येन'-कारणेन, भिनं'| मू मूर्त्तत्वभेदेन भिन्न अपरजातीय, वस्तु' 'आधारकाधेयकताम्'-आधाराधेयभावं, 'न लभेत'-न लन्धुं शक्नोति ॥१॥ मूलम्-आकर्ण्यतामुत्तरमस्य विज्ञाः!, कर्मस्वभावादथ जीवशक्त।
गुणाश्रयो द्रव्यमिति प्रवादात्, संसारिजीवस्य गुणस्तु कर्म ॥२॥ १. जीवः। २. साकारनिराकार । ३. मूर्तामूर्त्तत्वमेदेन भिन्नमपरजातीयं । ४. ततोऽमूरूिपाधार आत्मा मूर्तानां रूपिणां कर्मणां कथमाधेयभावं धार्यतां प्राप्नोतीति पृच्छकाशयः । ५. प्रसिद्धो वादः प्रकृष्टो वा वादः प्रवादः बहुजनतार्किक| जनोक्तिस्तस्मात् यथा हि सिद्धात्मनः सम्यग्ज्ञानदर्शनचारित्राणि गुणाः सिद्धस्यापि जीवद्रव्यत्वात् तथा संसारिजीवस्य सकर्मण: कर्म गुणः स्यात् जीवद्रव्यत्वात् ।