________________
12 समाधानमाह-मैवमित्यादिना 'तस्य'-स्वप्नस्य, 'महत्तमे' अतिशयेन महति अत्युत्कृष्टे इत्यर्थः 'फले दृष्टे' सति 'मैवमाख्य:र एवामित्थं माख्यः, मा ब्रूहि 'च' शब्दश्चरणपूता, शंकातरमपि निराकर्तुमाह-मा ब्रहीत्यादि 'मा बहीति-एवमपि मा कथयेत्यर्थः, 'अयं'-स्वप्नदर्शकनरः, 'अहो' इति-विस्मये, 'स्वप्नं स्मरति'-स्वप्नस्य स्मरणं करोतीति ॥११॥
मूलम्-यथा गृहीतं नहि कर्म 'स स्मरेत् , न स्मर्यते प्रायश एव दृष्टः।
स्वप्नस्तथा कर्मभरोऽपि 'चात्तः, कश्चित्स्मरेत् स्वप्नमिमं यथेक्षितम् ॥१२॥ कर्म स्मरेत् ज्ञान विशेषतस्तथा, प्रधानपुंसेक्षित एव यद्वत् ।
स्वमो यथार्थः फलतीह नूनं, तथैव कमात्तमिदं कृतार्थम् ॥१३॥ टीका–अत्र हेतुमाह-यथेत्यादिना 'तथा'-येन प्रकारेण, 'स'-कर्मग्राहको जीवः, 'गृहीत'--लब्धकर्म, न हि स्मरेत्'-- स्मर्तुं न शक्नोति, 'प्रायशः' एव'--बहुधैव, 'दृष्ट:'--अवलोकितः 'स्वप्नो' 'न स्मर्यते' न स्मृतिगोचरी क्रियते, 'तथा'--तेनैव प्रकारेण, 'च' शब्दश्वरणपूतौं, 'आचो'--गृहीतः, कर्मभरः'-कर्मसमूहोऽपि न स्मयते, अत्र विशेषमाह-कश्चिदित्यादिना परंतु यथा 'कश्चित्'-कोऽपि, 'ईक्षित'--दृष्टं, 'इम'-प्रस्तूयमानं, 'स्वप्नं स्मरेत्' 'तथा ज्ञानविशेषतः'-ज्ञानविशेषेण, 'कर्म स्मरेत्'-कर्मणः स्मरणं करोतीति अर्थः, फलद्वारा तयोर्यथार्थ्यमाह प्रधानेत्यादिना 'यद्वत्'--यथा, 'इह'--अस्मिन् संसारे, 'नूनं'-निश्चयेन, 'स्वप्नः'
१. कर्मग्राहको जीवः । २. गृहीतः । ३. यथा या चौरादिकः कश्चिदपराधी बन्धनं प्राप्तो निजाचरितचौर्यादि स्मरति ज्ञानादेव साघुरपि पूजां प्राप्तः स्वशुभाचारं स्मरति शानात् ।
>66060066089606:000000000
D00000000@eeee:96066Occeer