________________
जैनतत्त्वसाय
ये 'पुद्गलोत्करा'-परमाणुसमूहास्तान् 'विहाय-त्यक्त्वा, कुतः कर्मपुद्गलान् गृह्णातीत्याह-यादृक्षेत्यादिना 'यादृक्ष यादृक्षयादृशी या 'भविष्यदायति'-भाविकालोऽस्ति 'तादृक्षस्य तादृशस्य, 'सम्प्रेरणपारवश्यतः'-प्रेरणापराधीनत्वात् हेतौ पंचमी ॥९॥ मूलम्--सुप्तो यथा वा किल कश्चिदङ्गभृत्, स्वप्नान् प्रपश्यन् कुरुते 'समाः क्रियाः।
नोइन्द्रियेणैव न तत्र किञ्चने-न्द्रिय द्वयप्राणमहो प्रवर्तते ॥१०॥ टीका--उक्तविषयस्यैव दृष्टान्तद्वारेण पुष्टिमाह-सुप्त इत्यादि 'वा'-अथवा, किलेति'-स्ववार्तायाम् , 'यथा' 'कश्चित्'कोऽपि, 'अङ्गभृत्'-प्राणी, 'सुप्त'-शयानः सन् , स्वप्नान् , 'प्रपश्यन्'--अवलोकमानः, 'नोइंद्रियेणैव-नोइंद्रियं मनस्तेनैव, 'समाः-सर्वाः, 'क्रिया:'-व्यापारान्, 'कुरुते'-करोति, 'तत्र'-स्वप्नदर्शनकाले, 'किश्चन'-किमपि' 'इन्द्रियद्वयपाण'-इन्द्रियाणां द्वयमिंद्रियद्वयं ज्ञानेंद्रियाणि कर्मेन्द्रियाणि च तस्येंद्रियद्वयस्य, प्राणः शक्तिस्तस्य महस्तेजः, 'न प्रवर्तते'-न प्रवृत्तिं करोति ॥१०॥ ___ मूलम्-जीवस्तथा कर्मभरं हि लाति, स्वप्नो भ्रमोऽयं ननु मैवमाख्यः।।
महत्तमे तस्य फले च दृष्टे, मा बेहि यत्स्वममयं स्मरत्यहो ॥११॥ टीका–दृष्टांत दार्टान्ते योजयति-जीवस्तथेत्यादिना 'तथा'-उक्त प्रकारेण, 'ही'ति-निश्चये, 'जीव'-आत्मा 'कर्मभरं'- a कर्मसमूह, 'लाति'- गृह्णाति, अत्र शङ्कते-स्वप्न इत्यादिना 'नन्विति-वितर्के, 'अयं'-पूर्वोक्तः, 'स्वप्नो'-'भ्रमो'-भ्रान्तिरस्ति,
१. सर्वाः । २. मनसा । ३ बुद्धीन्द्रियक्रियेन्द्रियलक्षणेन्द्रियद्वयवल विना मनो नास्तीति । बुद्धीन्द्रियाणि स्पर्शनादि पञ्च । II क्रियेन्द्रियाणि करपादादिपञ्च । ४. स्वप्नस्य । ५. स्वमदर्शको नरः ।
5689999009000000000000000€
Decece6e480808686666666