________________
Geeeeeeeeeeeeeeeeeeeeeeeee
विशेषेषु भेदनं न भवति, पुनर्व्यभिचारं दर्शयति-धान्ये इत्यादिना यदि 'धान्ये'-अने, 'अंभसो'-जलस्य भेदनशक्ति-स्ति तहिं तेन 'कटुका'-करडूकणाः 'किन्न भेयाः ?-कथन्नभेदनीया भवन्ति ॥७॥
मूलम्-सिद्धं तथेदं ग्रहणीयमेव, वस्त्वत्र यस्यास्ति तदेव लाति ।
किंचुम्बको लोहमथोज्झ्य धातू-नन्यांश्च गृह्णाति तथा स्वभावात् ॥८॥ टीका-फलितमाह-सिद्धमित्यादिना-'तथेति'-तथा च सतीत्यर्थः, 'इदं'-वक्ष्यमाणं वृत्तं, 'सिद्धं'-सिद्धिगतं, किमित्याह-ग्रहणीयमेवेत्यादि 'अत्र'-अस्मिन् संसारे, 'यस्य' यत् 'वस्तु' 'ग्रहणीयमेव'-ग्रहीतुं योग्यमेवास्ति तत् 'तदेव' 'लाति'गृहाति, अस्यैव पुष्टिमाह-किमित्यादिना 'अथेति'वितर्के, 'कि' चुम्बका'-लोहाकर्षकपाषाणः, 'तथास्वभावात्'-लोहाकर्षणस्वभावेन 'लोहम्' अयः 'उज्झ्य'-त्यक्त्वा, उज्स्येति चिन्त्यं पदम् 'अन्यान्'-पदार्थान् , 'धातून'-सुवर्णादीन्, 'च' शब्दश्चरणपूता, 'गृह्णाति'-आदत्ते नादत्ते इतिभावः ॥८॥
मूलम्-अप्येवमात्मा परपुद्गलोत्करान्', विहाय गृहाति हि कर्मपुद्गलान् ।
याहक्ष यादृक्ष भविष्यदायतिः, तादृक्ष सम्प्रेरणपारवश्यतः ॥९॥ टीका-दार्टाते योजनामाह-अप्येवमात्मेत्यादिना 'अपि'-संभावने, 'एवम्'-उक्तमकारेण, 'आत्मा-जीवः, 'ही'ति निश्चये, 'कर्मपुद्गलान्' कर्मपरमाणून् , 'गृह्णाति'-आददते, किं कृत्वेत्याह-परपुद्गलोत्करान् विहायेति 'पर'-कर्मसकाशाद् भिन्नाः,
१. कर्मणः सकाशात भिन्नान् पुद्गलसमूहान् विहाय कर्मपुद्गलान् गृणाति । २. उत्तरकालः |
00000909099069900066996066