________________
अनतरवसार
तृतीयोऽ
धिकारः
10000000000000000000000000
मूलम्-वनस्पतीनामपि वा 'यथाहृति-र्यन्नालिकेादिषु दृश्यतेऽपि च ।
यदा घनं किं किल वस्तु सर्व, सङ्गृह्य नीरं स्वयमातिं स्यात् ॥६॥ टीका-अत्र दृष्टान्तरमाह-वनस्पतीनामित्यादिना 'यथा वेति'-यथा वेत्यर्थः, 'वनस्पतीनामपि' 'आहृतिः' आहारो भवति, कुत इत्याह ? यदित्यादि यद्यस्मात् कारणात् , 'नालिकेर्यादिषु' नालिकेरफलादिषु, 'दृश्यतेऽपि च'-तदाहारग्रहणं दृश्य| तेऽपि मूलसेचने तत्फलेऽपि नीरं दृश्यत एवेति भावः, यद्वेत्यादि 'यद्वा'-अथवा, 'घनं किम्'-अत्र बहूनोक्तेन किं प्रयोजनमस्ति,
'किलेति-निश्चये, 'सर्व वस्तु' सकलपदार्थजातं, कर्तृपदम् 'नीरं'-जलं, 'सङ्गृह्य-आदाय, 'स्वयं-स्वत एव प्रेरकमंतरैवेति भावः, का 'आतिम्'-आर्द्रत्वगुणयुक्तम् , 'स्यात्'-भवति ॥६॥
मूलम्-न चेति वाच्यं पयसोऽस्ति शक्ति-स्तदभेदने यद व्यभिचारितास्ति ।
न भेदनं मुद्गशिलासु तद्वत्, धान्येऽम्भसः किं कटुका न भेद्याः ॥७॥ टीका-अत्र वादिहृदयस्थ शंकां परिहतुमाह-नचेतीत्यादि 'तभेदने-पदार्थछेदने, 'पयसो'-जलस्य, 'शक्ति'-सामर्थ्यमस्ति, इति 'न च वाच्यं त्वया एवं न वक्तव्यम् , कुत इत्याह-यद्-व्यभिचारितास्तीति 'यत्'-यस्मात्कारणात्, उक्तविषये 9] 'व्यभिचारिता'-व्यभिचारी अस्ति व्यभिचारमेव दर्शयति, न भेदेनमित्यादिना 'तद्वत्'-अन्यवस्तुवत् , 'मुद्गशिलासु'-पाषाण
१. आहारः । २. वनस्पतीनामपि पाण्यादि विवाहारग्रहणं दृश्यते तच्च लाभाल्यादिषु गृहोतमपि समीक्ष्यते तन्मूले जलसेचनात्तत्फले जलाधानं प्रत्यक्षतयोपादीयते । ३. करडूकणाः ।
696900600606060606960000€