________________
तृतीयोधिकार
जैनतत्त्वसार
10 'फलति'--फलदायको भवति, कथंभूतः स्वप्नः ? 'यथार्थः'--सत्यः, पुनः कथंभूतः ? 'प्रधानपुंसेक्षित एव'--मुख्यजनदृष्ट एप, ॥ १२ ॥
'तथैव'-उक्तरीत्या, 'इदं प्रस्तूयमानम् , 'आत्तम्'--गृहीतं, 'कर्म' 'कृतार्थम्'-सफलं भवति--फलप्रदं भवतीत्यर्थः ॥१२-१३॥ __ मूलम्-स्यादङ्गिनः संशय एव नात्र, व्यर्थीभवत्स्वमभरस्य जन्तोः।
स्वमो यथा केवलिनस्तथास्ति, कर्मग्रहस्तत्क्षणनाशतो यत् ॥१४॥ टीका-म्यादित्यादि 'अत्र' -अस्मिन् विषये, 'अङ्गिनः'-पाणिनः, 'संशय एव न स्यात्'-शंकैव भवितुम् न शक्रोति, कुत इत्याह ? व्यर्थीभवदित्यादि यद्यस्मात् कारणात् व्यर्थीभवत्स्वप्नभरस्य जन्तोरिति यस्य 'स्वप्नभरः-स्वप्नसमूहो, 'व्यर्थीभवत्'-वर्त्तते, तस्य प्राणिन इत्यर्थः, यथा स्वप्नो भवति व्यर्थरूप इत्यर्थः, 'तथा' 'केवलिन'-केवलज्ञानयुक्तस्य, 'कर्मग्रहः'कर्मग्रहणमस्ति व्यर्थरूपमित्यर्थः, कुत इत्याह-'तत्क्षणनाशतः'-तस्मिन्नेव क्षणे, उत्पादकाळ एवेतिभावः, 'नाशतः'-विलोपात् ।।
मूलम्-तथा निजात्मन्यपि पश्यतोऽत्र, सम्मील्य चेतः परिकल्प्य सुस्थम् ।।
उत्पत्तिकालादवसानसीमा-मात्मा सृजेत्का मणतैजसाभ्याम् ॥१५॥ टीका-तथेत्यादि 'तथा' शब्दः किश्चार्थे 'अत्र'-अस्मिन् , 'निजात्मन्यपि-स्वात्मविषयेऽपि, 'पश्यतः' यूयम् किं कृत्वेत्याह-सम्मील्येत्यादि 'सम्मील्य-अक्षिणी निमील्य, पुनः किं कृत्वा 'चेतः' मनः, 'सुस्थं'-सावधानं, 'परिकल्प्य'-विधाय, किं
१. शरीराभ्याम् ।
290060606060606060606
9696969696969696969699900