________________
6969696969600000000069
॥ अथ तृतीयोऽधिकारः ॥ जीव इन्द्रियहस्तादिकं विनापि कर्मग्रहणं करोतीत्याह अष्टाविंशतिश्लोकैः मूलम्-स्वामिन्ननाकारतया हि जीवो, निरिन्द्रियः केन च लाति कर्म ।
निरीक्ष्य पूर्व तत 'आत्मलेयं, 'पाण्यादिना न्याददते पुमांसः॥१॥ टीका-स्वामिनित्यादि 'हे स्वामिन् !'-प्रभो !, 'हीति-निश्चये, 'जीव'-आत्मा, केन'-हेतुना, 'कर्म' 'लाति'-गृह्णाति, चकारश्चरणपूतों, कथंभूतो जीवो? निरिन्द्रिय'-इंद्रियविरहितः, कुतो निरिन्द्रियत्वं तस्येत्याह-'अनाकारतयेति-आकाररहितत्वेनेत्यर्थः । अत्रैव पुष्टिमाह-निरीक्ष्येत्यादिना 'पुमांसो-जनाः 'पूर्व-प्रथमम् , 'आत्मले(ञ)यम्'-आत्मना ग्राह्यं वस्तु, 'निरीक्ष्य' दृष्टा, 'सतः'-तदनंतरं, 'पाण्यादिना'-हस्तादिना, 'न्याददते'-गृह्णाति ॥१॥
मूलम्-आत्मा तु नेदृक् घटते न चैतत् , सत्यं विनापीन्द्रियतोऽप्यथात्मा।
'भाब्याश्रितं कर्म समाददीत, शक्तेः स्वभावात् च शृणु स्वरूपं ॥२॥ टीका-आत्मा त्वित्यादि 'आत्मा'-जीवस्तु, 'ईदृक्-उक्तस्वरूपो नास्ति, 'एतत्'-पूर्वोक्तं च कथनं, 'न घटते' न १. आत्मना लेयं ग्राह्य यद् वस्तु स्यात्तवस्तु पाण्यादिना नियतमाददते इत्यर्थः । २. करादिना । ३. गृह्णन्ति । ४. भविप्यत्कालभोगाई भवितव्यताथितं ।
seeeeeeeeeeeeeeeeee