________________
जैनतस्वसाप
द्वितीयोऽ थिकार
10969690000000000000000000
मूलम्-कालात्मभावादिनियोजितान्यहो, स्वभावशक्तेश्च शुभाशुभानि यत् ।
कर्माणि सामीप्यसमाश्रितान्यय-मात्माऽपि गृह्णाति तथाऽविचारितम् ॥११॥ टीका-दार्टान्ते योजनामाह 'कालात्म०' इत्यादिना । 'तथा'-उक्तप्रकारेण 'यद्-यतः 'अहो' इति विस्मये 'अयं'विवक्षितः, आत्मा'-जीवोऽपि, 'अविचारित'-विचारं विनैव 'शुभाशुभानि कर्माणि'-शुभान्यशुभानि च कार्याणि 'गृह्णाति'आदत्ते । कथंभूतानि शुभाशुभानि कर्माणि ? 'कालात्मभावादिति योजितानि'-कालस्वभावादिभिः प्रेरितानि, आदिशब्देन नियत्यादिग्रहणम् । पुनः कथंभूतानि ? 'सामीप्यसमाश्रितानि'-सामीप्यं प्राप्तानि । कुतो गृह्णाति ? इत्याह-स्वभावशक्तेः' इति आत्मनः स्वभावस्यैवेत्यं शक्तिरस्ति यस्या वशेन स उक्तकर्माणि गृहातीत्यर्थः ॥११॥
peeeeeeeeeeeeDe0000060emes
॥ जीवस्य शुभाशुभकर्म ग्रहणोक्तिलेशो ।।
॥ द्वितीयोऽधिकारः॥