________________
seeeeeeDESe8o668GBedeese
जीवस्य कर्मग्रहणे स्वभावो, 'ज्ञानं विनाऽप्यस्ति निदर्शनं यत् ॥९॥ टीका-दान्तेि घटनमाह 'एवं ही' त्यादिना । 'एवं'-उक्तरीत्या, 'असुमान्'-प्राणी जीव इति यावत् , विदन्'जानन्नपि 'अवश्यं'-निश्चयेन 'शुभाशुभानि'-शुभान्यशुभानि च कर्माणि 'विलाति'-गृह्णाति । अत्र हेतुमाह 'जीवस्य'-आत्मनः 'कर्मग्रहणे'-कर्मणामादाने 'स्वभाव'-प्रकृतिरस्ति, 'यत्'-यस्मात् कारणात् अत्र 'निदर्शनं'-दृष्टान्तोऽस्ति ।।९॥
मूलम्-यथैव लोके किल चुम्बकोऽप्ययं, संयोजकर्योजितमंजसा भृशम् ।
सारं तथाऽ सारमयोऽविचारितं, गृह्णाति येना व्यवधानमात्मनः ॥१०॥ टीका-दृष्टान्तमेवाह 'यथैव' इत्यादिना । यथैव 'लोके-संसारे, 'किले'ति-स्ववार्तायाम् , 'अयं'-विवक्षितः 'चुम्बकः' लोहाकर्षकपाषाणविशेषोऽपि 'भृशं'-निरन्तरं 'अंजसा'-शीघं अविचारितं यथा स्यात्तथा विचारमन्तरेणैवेत्यर्थः 'अय'-लोहं 'गृह्णाति'-आदत्ते । कथंभूतमयः ? 'संयोजकैोजितं'-योजनकर्तृभिः समीपे स्थापित, पुनः कथंभूतं ? 'सारं तथाऽसारं'-सारभूतं कान्तविद्युत्सारादि, असारभूतं मुण्डादि, एतत् द्विविधमप्ययो गृहातीत्यर्थः । पुनः कथंभूतं ? 'येनात्मनोऽव्यवधान'-येनायसा सहात्मनः-स्वस्य व्यवधानम्-अन्तरं नास्ति तत् ॥१०॥
१ज्ञानं विनापि जैनाभिप्रायेण जीवस्य ग्रहणस्वभावोस्ति, अत्र दृष्टान्तो-"यथा (यथैव) लोके किल" इत्यादि । २ लोहं कान्तविद्युत्सारादि । ३ मुण्डादि । ३४ येन सारेण लोहेनाथवा असारेण लोहेन सहात्मनः स्वस्याव्यवधान-अन्तरं नास्ति ।
190:000000000000000000000€