SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽ धिकार ॥ ७ अनतत्त्वसारमा टीका-पुनदृष्टान्तानाह 'भिक्षुस्तथा' इत्यादिना । श्लोके तथाशब्दौ चशब्दाश्च समुच्चयेऽवबोध्याः । 'भिक्षु:'-भिक्षणशीलः, 'बन्दी'-चारणादिः, 'क्रत्यकः (६-१-१२७) इति पाणिनीयसूत्रेग हूस्वत्वं प्रकृतिभावश्च, 'ऋषि'-तत्त्ववित् 'स्निग्धां'स्नेहयुक्तां सरसामिति यावत् , भिक्षा परिबुध्य-ज्ञात्वा 'भुङ्क्ते -अत्ति । तथा 'युद्धगतः' संग्रामं प्राप्तः 'शूर'-वीरपुरुषः 'रोधेदुर्गरोधनादिके सति 'अवगच्छन्'-जानबपि 'शत्रुन्'-चैरिणः 'अशन्'-मित्राणि च 'निहन्ति'-मारयति ॥७॥ मूलम्-रोगी यथा वा निजरोमशान्ति-मिच्छन्नपथ्यं धपि सेवतेऽसौ।। रोगाभिभूतत्ववशादपाय, जानन् त्वयं भाविनमात्मगामिनम् ॥८॥ टीका-दृष्टान्तरमाह 'रोगी यथा वा' इत्यादिना । 'वा' अथवा 'यथा'-येन प्रकारेण 'असौ'-विवक्षितः 'रोगी'-रोग2 वान् रुग्ण इति यावत् , हीति निश्चये 'अपथ्यमपि'-अहितमपि वस्तु 'सेवते'-व्यवहरति । कथंभूतो रोगी ? 'अपायं जानन्'विनाशं विदन् अपथ्यसेवनजन्यफलं जाननपीत्यर्थः । कथंभूतमपायं ? 'स्वयं माविनं'-स्वत एव भविष्यति काले भवनशीलं, पुनः कधंभृतं ? 'आत्मगामिनं'-स्वस्मिन्नागन्तुकम् । आत्मगामिनं भाविनमपायं विदन्नपि कुतोऽपथ्यं सेवते ? इत्यत्र हेतुमाह-रोगाभिभूतत्ववशात्' इति रोगेणाभिभूतत्व-पारवश्यं तद्वशात् तस्य वशेन रोगपरवशः सन्नित्यर्थः ॥८॥ ज्ञानं विनापि जीवानां कर्मग्रहणं सम्भवति श्लोकद्वयेनाह । _मूलम्-एवं हि कमाण्यमान् विलाति शुभाशुभानि प्रविदन्नवश्यम् । १ पारवशात् । २ कष्टम् । ३ जीवः । 606060:6000000000009699900 Neeeeeeeeeeeeeeeeeeeeeeeer ॥ ७ ॥
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy