________________
मिच्छुः । पुनः कथंभूतः ? “ शुभाशुभान् स्थानभरान् विजानन् - शुभा अनुभाब ये स्थानमराः - स्थानसामग्यः तान् विजानन्जानानोऽपि ॥५॥ मूलम्-तथा च चौराः परदारगा अपि, व्यापारिणो दर्शनिनो द्विजास्तथा । विदन्त एते हि तथाविधायतेः शुभाशुभं कर्म समाचरन्ति ॥ ६ ॥
टीका - उक्तविषयपुष्टये पुनर्दृष्टान्तानाह 'तथा च' इत्यादिना । ' तथा च' इति - अन्यदपि दृश्यतामित्यर्थः । 'चौराः' - चौर्यकर्तारः, 'परदारगाः' - परस्त्रीसेवनकर्तारः, अपिशब्दः समुच्चये, व्यापारिणो-व्यापारं कर्तारः, 'दर्शनिनो' - मतानुयायिनः तथेति समुच्चये 'द्विजाः' - ब्राह्मणाः, एते पूर्वोक्ताः, हीति चरणपूर्ती, 'विदन्तो' - जानन्तः स्वस्वकर्मफलं जानाना अपीत्यर्थः, ' तथा विधायतेः’–तथाविधात्-तादृशः शुभाशुभहेतुभूतादित्यर्थः, 'आयतेः' - भविष्यत्कालात् तथाविधशुभाशुभ हेतु भविष्यत्कालादिति भावः, हेतौ पञ्चमी, 'शुभाशुभं कर्म - शुभमशुभं च कार्य ' समाचरन्ति' - कुर्वन्ति चौरादयः स्वस्वकर्मविपाकं जानन्तोऽपि तथा विधायतिवशाच्छुभाशुभं कर्म कुर्वन्त्यर्थः ॥ ६ ॥
मूलम् - भिक्षुस्तथा 'बन्दि ऋषिश्च भिक्षां, स्निग्धां च रूक्षां परिबुध्य भुङ्क्ते । शूरस्तथा युद्धगतोsवगच्छन्, शत्रून शत्रूंश्च निहन्ति रोवे ||७||
१ तथाविधशुभाशुभहेतु भविष्यत्कालात् । २ बन्दिशन्दस्य र 'ऋत्यकः' इति पाणिनीयसूत्रेण पक्षे कृतह्रस्वस्त्रस्य पाठः । ३. 'ऋषितवत् योगविदिति । ४ स्निग्धामर्थात् स्वादिष्टां मृष्टां सरसामिति यावत् । ५ रुक्षामुक्तविपरीतां स्वस्मिन्नयचितां स्वप्रकृतितो भिन्नरूपामिति । ६ ज्ञात्वा । ७ रोधे- गढ रोधादिके ।
96060
3000000