________________
जैनतत्त्वसार
तृतीयोऽ
धिकार
॥
९
॥
0000000000000000000000000र
सिद्ध्यति । उत्तरमाह-सत्यमित्यादिना 'सत्य'मिति-उक्तकथन सत्यमस्तीत्यर्थः, परंतु 'अथेति-संभाव्ये, 'आत्मा' जीव 'इन्द्रियतो'-विनाऽपि इंद्रियविनापि'--एकोऽपि शब्दश्चरणपूर्ताववगन्तव्यः, 'कर्म' 'समाददीत'-गृह्णीयात् , ग्रहीतुं शक्नोतीतिभावः, कथंभूतं कर्म ? 'भाव्याश्रितं'-भविष्यत्कालभोग्यम् , अत्र हेतुद्वयमाह-शक्तेः 'स्वाभावाचेति आत्मनस्तादृशी शक्तिस्ताक् स्वभावश्चाऽस्तीत्यर्थः, शृणु स्वरूपमिति'-आत्मस्वरूपं श्रूयतामित्यर्थः ॥२॥
मूलम्-यथेन्द्रियाकार विवर्जितोऽयं, कर्ता शृणोत्येव निजागिजापम् ।
भक्तं निरीक्ष्याऽथ विलाति पूजा, पाणिं विना चोद्धरतीह भक्तान ॥३॥ टीका-उक्तविषयमेव स्पष्टयति, यथेत्यादिना 'यथा' 'अयं विवक्षितः, 'कर्ता'-जगत्कारकः, निजाङ्गिजापम्'-निजभक्तजापम् , 'शृणोत्येव'-आकर्णयत्येव, पुनः किं करोतीत्याह-भक्तमित्यादि 'अथेति'-संभाव्ये, 'भक्त'-भजनकर्तारं, 'निरीक्ष्य'दृष्ट्वा, 'पूजां'-पूजनमर्चामिति यावत् , 'विलाति'-गृह्णाति, पुनः किं करोतीत्याह-पाणिमित्यादि 'इह'-अस्मिन् जगति, 'पाणिं विना'-हस्तेन विनैव च, 'भक्तान-भजनकर्तृन् , 'उद्धरति'-संसारात तारयति, कथंभूतः कर्तेत्याह-इंद्रियाकारविवर्जित इति 'इंद्रियाकारेण विरहित इत्यर्थः ॥३॥
मूलम्-पापं हरत्याशु कृतं स्वकर्य-दनन्तशक्तः सहजात्तथाऽऽत्मा।
लोके यथा वा 'गुडको रसस्य, सिद्धो निरक्षेन्द्रियपाणिमुक्तः ॥४॥ १. अयमिति कर्तृवादिलोकप्रसिद्धः कर्ता । २. गुटिका । ३. पारदस्य ।
peococceeeeesa@GOODCOc00000