SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ तत्त्वसार टीकायाम् एकोनविंशोधिकारः 1१३१ ॥ तम् वचनम्, 'वरं प्रोक्तम् '-सुष्ठु कथितम् भवता, 'परं'-परन्तु, 'यथा'-येन प्रकारेण, ' इह '-अस्मिन्संसारे, 'चिन्तामणिमुख्यम् '-चिन्तामण्यादिकम् वस्तु, 'अर्चकानाम्'-पूजकानाम् जनानाम् , स्वपूजनकर्तृणामितिभावः, 'सद्यः'शीघ्रं, 'फलत्येव'-निश्चयेन फलति, 'तथा'-तेन प्रकारेण, 'अत्र'-अस्मिन्संसारे, 'असौ'-प्रसिद्धा, 'पारमेशी प्रतिमा'-परमेश्वरसम्बन्धिनी मृतिः, 'अर्चिता'-पूजिता सती, 'नो फलेत् '-नो फलति, चिन्तामण्यादिवत् सद्यः फलदात्री न भवतीतिभावः ॥१॥ मूलम्-सत्यं त्वदुक्तं परमत्र साधो !, संस्थाप्य चेतः स्थिरमित्यवेहि। यवस्तुनो योऽस्ति फलस्य काल-स्तत्रैव तद्वस्तु फलत्यशङ्कम् ॥ २॥ टीका-अस्योत्तरमाह-सत्यमित्यादिना 'हे साधो!'-हे मुने !, 'त्वदुक्तं'-तव कथनं, 'सत्यम्'-यथार्थमस्ति, 'परं'परन्तु, 'अत्र'-अस्मिन् विषये, 'चेतः स्थिरं संस्थाप्यम्'-मानसं स्वस्थं कृत्वा, 'इति'-एतत् , वक्ष्यमाणमित्यर्थः, त्वम् 'अवेहि '-जानीहि, 'यद्वस्तुनः'-पदार्थस्य यः, 'फलस्य कालोऽस्ति'-विपाकस्य समयो भवति, 'तत्रैव'-तस्मिन्नेव काले, 'तत्'- पूर्वोक्तं वस्तु, ' अशङ्कम् '-शङ्कारहितम् , यथा स्यात्तथा निःसन्देहमितिभावः, ' फलति'-फलदायि भवति॥२॥ मूलम्-यथाहि गर्भो नवभिस्तु मासैः, पूर्णर्लभेत् सूतिमिहैव नार्वाक् । तथा पुनः काश्चन मन्त्रविद्याः, लक्षेण कोव्याथ फलन्ति जापैः ॥ ३ ॥ टीका-अत्रोदाहरणमाह-यथाहीत्यादिना ' यथाही' ति तद्यथेत्यर्थः, 'तु' शब्दश्चरणपूर्ती, 'गर्भः'-भ्रूणः, 'नव
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy