________________
1
'इह '-अस्मिन् संसारे, 'कथित '-कोऽपि, 'अपथ्यपथ्याहारी'-अपथ्यपथ्यभोजनकर्ता जनः, 'दुःखं'-क्लेशं, 'च'पुनः, 'सुखं'-सौख्यम् , एकश्चशब्दश्चरणपूर्ती, 'भुक्ते'-अनुभवति, अपथ्याहारी दुःखं पथ्याहारी च सुखं भुङ्क्त इत्यर्थः, 'तु'-परन्तु, 'यदिति' निश्चयेन, 'ते'-दुःखसुखे, 'आहृतवस्तुनो न स्तः'-भुक्तपदार्थस्य न भवतः, डान्तिविषयमाहएवमित्यादिना 'एवम्'-अनया रीत्या, 'च' शब्दश्चरणपूतौं, 'सिद्धार्चन'-सिद्धस्य पूजनम् , 'आत्मगामि'-आत्मप्राप्ति, पूजनकर्तजीवभावीति यावत् भवति ॥ १९॥
5 45
नास्तिकस्याऽनाकारस्यापि भगवतः स्थापनोक्तिलेशोऽष्टादशोधिकारः
अथ एकोनविंशोधिकारः
प्रतिमापूजनफलं प्रायः शीघ्रमत्र भवे न प्राप्नोतीत्यस्य कारणानि विंशतिश्लोकैराहमूलम्--साधो ! वरं प्रोक्तमिदं परं यथा, चिन्तामणिमुख्यमिहार्चकानाम् ॥
सद्यः फलत्येव तथाऽत्र पार-मेशी फलेनो प्रतिमार्चिताऽसौ ॥१॥ टीका-पारमेश्याः प्रतिमाया अर्चायाः फलविषये प्रश्नयति-साधो ! इत्यादिना' हे साधो! 'हे मुने !, 'इदं'-पूर्वो
%25A5%20-%251)