SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ जैनतत्त्वसार टीकायाम् अष्टादशोऽधिकार ॥१३०॥ ** फलाय भवति, 'अथे' ति-अनन्तरे, 'यदि'-चेत्, 'कश्चिदंगी'-कोऽपि प्राणी, 'ईशं निन्देत् '-ईशस्य निन्दा कुर्यात् , तर्हि 'जनतासमक्षं'-जनसमूहसम्मुखे, 'सैव'-निन्दकजन एव, सोविलोपे इत्यादिना चरणपूर्ती, लोपेऽपि सन्धिः , 'दुःखीस्यात्'-दुःखयुक्तो भवति ॥१७॥ मूलम्-स्तुतेऽधिकं स्यान्नहि सावभौमे, विनिन्दितेऽस्मिंस्तु न किञ्चिदूनम् । नैवं प्रभौ पूजननिन्दनाभ्या-माधिक्यहानी स्त इमे तु कर्तुः ॥१८॥ टीका-दृष्टान्तविस्पष्टनपूर्वकं दार्टान्तविषयमाह-स्तुतेऽधिकमित्यादिना यथा 'सार्वभौमे'-चक्रवर्तिनृपे, 'स्तुते'स्तुति नीते सति, 'सः'-सार्वभौमः, 'अधिकं न हि स्यात्'-अधिको न भवति, वृद्धिं न यातीत्यर्थः, 'तु'-पुनः, 'अस्मिन्'सार्वभौमे, 'विनिन्दिते '-कुत्सां नीते सति, 'सः'-सार्वभौमः, 'किश्चिदनम् -किमपि न्यूनं, 'न भवति'-कथमपि हानि न यातीत्यर्थः, हार्टान्ते घटनामाह-एवमित्यादिना ' एवम् '-अनया रीत्या, 'पूजननिन्दनाभ्याम्'-अर्चाकुत्साभ्यां, 'प्रभौ'-परमेश्वरे, 'आधिक्यहानी न स्तः'-उपचयापचयो न भवतः, 'तु'-किन्तु, 'इमे'-आधिक्यहानी, 'कर्तुः'| कारकस्य, अर्चाकुत्साकारकस्य जनस्येतिभावः, स्तः, पूजनकर्तुर्जनस्वाऽऽधिक्यं निन्दनकर्तुश्च जनस्य हानिर्भवतीतिभावः ॥१८॥ मूलम्-यद्वा पुनः कश्चिदपथ्यपथ्या-हारीह दुःखं च सुखं च भुङ्क्ते । न स्तस्तु ते आहृतवस्तुनो यद्, एवं च सिद्धार्चनमात्मगामि ॥१९॥ टीका-उदाहरणान्तरपूर्वकमुक्तविषयं निगमयति-यवेत्यादिना 'यद्वा'-अथवा, 'पुनरि 'ति समुच्चये, यथा SARG5SCCUSATSAॐ ॥१०॥
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy