SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ प्रक्षेपणकर्त्तारम् जनम्, 'अभ्युपेते ' - प्राप्ते भवतः, किन्तु 'तं ' -क्षेपकम् जनम्, कुत्रापि ' जातु '- कदाचित्, 'न यातः ' - न गच्छतः ।। १५ ।। 'अतीत्य ' - प्रोल्लवथ, ' कुत्रचित् ' - मूलम् - कश्चिद्रवेः सम्मुखमात्मना रजोऽथवा सिंताभ्रं क्षिपति क्षमास्थः । तत्सर्वमस्यैव समेति सम्मुखं, न याति सूर्य च तथोच्चखं प्रति ॥ १६ ॥ टीका - उदाहरणान्तरमाह - कश्चिदित्यादिना ' क्षमास्थः ' - भूमौ स्थितः, ' कश्चित् ' - कोऽपि जनः, यदा ' रवेः सम्मुखम् ' - सूर्यस्य समक्षम्, 'आत्मना 'स्वयं, ' रजः ' - धूलिम् ' अथवा ' - यद्वा, 'सिताभ्रं 'कर्पूरं, 'क्षिपति - प्रक्षेपं नयति, तदा 'तत्' - पूर्वोक्तम्, 'सर्व ' -सकलं रजःप्रभृति, 'अस्यैव '- प्रक्षेपकस्यैव, ' सम्मुखं समेति ' - समक्षमायाति, किन्तु 'तत्' – सर्व, 'सूर्य' - रविं प्रति, 'तथे 'ति समुच्चये, 'च' शब्दश्चरणपूर्त्ती, ' उच्चखं प्रति ' -उच्चाकाशमुद्दिश्य, ' न याति - न गच्छति ॥ १६ ॥ मूलम् - यद्वा पुनः कश्चन सार्वभौमं संस्तौति तस्यैव फलाय से स्यात् । निन्देदथेशं यदि कश्चिदङ्गी, स्यात्सैव दुःखी जनतासमक्षम् ॥ १७ ॥ टीका — उदाहरणान्तरमाह - यद्वेत्यादिना ' यद्वा ' - अथवा, ' पुनरि 'ति समुच्चये, 'कश्चन ' - कोऽपि जनः, यदा ' सार्वभौमं ' - चक्रवर्तिनृपं, ' संस्तौति ' - सम्यक्तया प्रस्तुते तदा ' स: ' - संस्तवं, ' तस्यैव फलाय स्यात् ' - स्तोतुरेव १. कर्पूरं । २. संस्तवः ।
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy