________________
आकारः, 'कृता'-निर्मिता, अस्ति तथा ' अस्याः'-पूर्वोक्ताया अपि आकृतेः, 'स्थापनं'-स्थापना, 'बुधैः'-विद्वद्भिः, 'स्वस्वसुगुप्तवेदने '-निजनिजगुप्तवृत्तान्तप्रकाशनाय, 'अन्यदन्यत् कृतं'-भिन्न भिन्नं विहितमस्ति ॥११॥ मूलम्-पुनश्च रागा अपि शाब्दरूप्या-दाकारमुक्ताश्च तथाऽपि तदबुधैः।
ते रागमालाह्वयपुस्तकेषु, न्यस्ताः किलाकारभृतः समस्ताः ॥ १२॥ टीका-पुष्ट्यर्थ दृष्टान्तरमाह-पुनश्चेत्यादिना 'पुनश्चेति समुच्चये, यद्यपि ' रागा अपि'-भैरव्यादयोऽपि, 'शाब्दरूप्यात् '-शब्दस्वरूपभावात् , हेतौ पञ्चमी, 'आकारमुक्ताः'-आकृतिरहिताः सन्ति, 'च' शब्दश्वरणपूत्तौं, ' तथापि'तदपि, 'तबुधैः'-रागज्ञाभिर्जनः, 'पूर्वोक्ताः समस्ताः'-सर्वे रागाः, 'किले 'ति निश्चयेन, 'रागामालाह्वयपुस्तकेषु'-रागमालानामकग्रन्थेषु, 'आकारभृतो न्यस्ताः'-आकृतियुक्ताः संस्थापिताः सन्ति ॥१२॥ मूलम्-एवं त्वनाकारवतोऽप्यधीशितु-राकार एष प्रविकल्प्य सद्भिः।
यं यं वशं साधु समिष्य पूज्यते, सर्वोऽप्ययं तेषु फलत्यवश्यम् ।। १३ ।। टीका-दार्टान्ते घटनामाह-एवमित्यादिना 'एवम् '-अनया रीत्या, 'तु' शब्दश्चरणपूत्तौं, 'अनाकारवतोऽपि'आकृतिरहितस्यापि, 'अधीशितुः'-स्वामिनः, 'एषः'-पूर्वोक्तः, प्रसिद्धो वा, 'आकार:'-आकृतिः, 'सद्भिः'साधुभिर्जनैः, 'प्रविकल्प्य '-संकल्प्य, 'यं यं वशं समिष्य'-यं यं कामं अभिष्य, 'साधु'-सम्यक्तया, 'पूज्यते'अर्यते, 'तेषु'-पूर्वोक्तेषु सत्सु, 'अयं'-पूर्वोक्तः, 'सर्वोऽपि '-सकलोऽपि वशः, 'अवश्यं '-निश्चयेन, 'फलति'
514464A49