________________
जैन
तत्वसार
टीकायाम्
॥ १२८ ॥
'इमा: ' - प्रसिद्धाः, 'समाः ' - सर्वाः, ' लिपी : ' - लेखशैली:, 'मिथ्या विधातुम् ' - अन्यथा कर्तुम्, ' कोऽपि कश्चित् जनः, ' ही ' ति चरणपूर्त्तो, ' शक्तः ' - समर्थो नास्ति, तर्हि किमस्तीत्याह - येत्यादिना 'किले 'ति निश्वये, 'च'शब्दश्चरणपूर्त्ती, ' येषु '- जनेषु, 'याः' - लिपयः, ' सिद्धाः - प्रसिद्धाः सन्ति, 'तैः '-पूर्वोक्तः, ' नरैः '-जनैः, 'ताभिः 'पूर्वोक्ताभिः, ' लिपीभिः ' - लेखशैलीभिः फलं ' प्रविधीयते - क्रियते ॥ ९॥
मूलम् - लिप्यो विभिन्ना इह यद्यपीमा, व्यक्तिः समैवाऽस्ति तु पाठकाले । नृणां तथा कार्यकृतिः समस्ता, ताभिः समाना भवतीत्यवेहि ॥ १० ॥
टीका - उक्तविषयमेव स्पष्टयति- लिप्य इत्यादिना ' इह ' - अस्मिन् संसारे, 'यद्यपि ' ' इमाः प्रसिद्धाः, 'लिप्यो विभिन्नाः’–लेखशैल्यो भिन्नाभिन्नाः सन्ति, तथापि, ‘पाठकाले ' - पठनसमये, 'व्यक्ति: ' - प्राकटयम्, वर्णाभिव्यक्तिरितिभावः, ' तु ' शब्दो विनिश्वये, ' समैवाऽस्ति ' - तुल्यैव भवति, तथेति समुच्चये, 'नृणाम् ' - मनुष्याणाम्, 'समस्ता ' -सर्वा, 'कार्यकृतिः' - कार्यविधानं, 'ताभिः ' - लिपिभिः, 'समाना भवति' - तुल्या जायते, 'इति' - एतत् त्वम् 'अवेहि' - जानीहि ॥ १०॥
मूलम् - घनं किमाकारविवर्जिताना - मिहाक्षराणामियमाकृतिः कृता । अस्या अपि स्थापनमन्यदन्यत्, कृतं बुधैः स्वस्वसुगुप्तवेदने ॥ ११ ॥
टीका — उक्तविषयमेव विस्पष्टयति- घनमित्यादिना ' घनं किमि 'ति अत्र विषये बहुजनोक्तेन किमित्यर्थः, ' इह 'अस्मिन् संसारे, ' आकारवर्जितानाम् ' - आकृतिरहितानाम्, 'अक्षराणाम् ' - वर्णानाम्, 'इयं ' - पूर्वोक्ता, ' आकृतिः '
अष्टादशोऽ धिकारः
॥ १२८ ॥