________________
टीका-अस्यैव पुष्टिमाह-यदीत्यादिना 'यदि'-चेत् , ' अक्षराणां'-वर्णानाम् , 'आकृतिः'-आकारः, 'नियता स्यात् '-निश्चिता भवेत, 'तदा'-तर्हि, ' समेषां'-सर्वेषाम् वर्णानाम्, 'आकृतिः'-आकारः, 'सदृक् स्यात् '-समाना | भवेत् , परन्तु, 'सा'-साहगाकृतिः, 'नास्ति'-न विद्यते, 'अतः'-अस्मात् कारणात् , 'वर्णाकृतिः'-अक्षराणामाकारः, भिन्नकभिन्निकैव-निश्चयेन भिन्नाभिन्नास्ति, 'तत्र '-वर्णाकृती, 'काऽपि '-काचिदपि वर्णाकृतिः, 'तुल्या'-समाना नास्ति ।। ७॥ मूलम्-यावन्ति राष्ट्राणि च सन्ति विश्वे, वर्णाकृतिस्तेष्वपरापरैव ।
तव्यक्तिकाले तु समोपदेश-स्तैः कार्यमप्यत्र विधीयते समम् ॥८॥ टीका-उक्तविषयमेवाह-यावन्तीत्यादिना 'च' शब्दः समुच्चये, 'विश्वे'-जगति, 'यावन्ति राष्ट्राणि सन्ति'यत्सङ्ख्याका देशा विद्यन्ते, 'तेषु'-राष्ट्रेषु, 'वर्णाकृतिः '-अक्षराणामाकारः, 'अपरापरैव -निश्चयेन भिन्नाभिन्नाऽस्ति, | परन्तु 'तद्व्यक्तिकाले'-वर्णानाम् प्राकट्यसमये, पठन काल इतिभावः, 'समोपदेशः'-समान उपदेशः, भवति तथा 'अत्र'-अस्मिन्संसारे, 'तैः'-वर्णैः, 'कार्यमपि '-कृत्यमपि, 'समं विधीयते'-तुल्यं क्रियते ॥८॥ मूलम्-पुनश्च पश्य त्वमिमाः समा लिपी-मिथ्या विधातुं न हि कोऽपि शक्तः।
या येषु सिद्धाः किल तैश्च ताभि-नरैलिपिभिः प्रविधीयते फलम् ॥९॥ टीका-उक्तविषयमेवाह-पुनश्चेत्यादिना 'पुन' रिति समुच्चये, 'च' शब्दश्चरणपूत्तौं, त्वं पश्य '-ईक्षस्व, यत