________________
BoceaeeeacocaG0000000000
त्यादि,' 'आत्मा'-जीवस्तु 'बुद्धो'-ज्ञानवान् वर्तते स 'जानन्'-कर्मविपाकं विदन्नपि 'स्वयमेव'-स्वातन्त्र्येणैव कर्माणि 'कथं | केन प्रकारेण 'लाति'-गृहणाति ? हि-शब्दः पादपूत्तौ । कथंभूतानि कर्माणि ? 'अशस्तानि'-अशुभानि दुःखजनकानीति यावत् ,
आत्मा शुभविपाकानि प्रशस्तकर्माणि सुखैपी सन् गृह्णातु नाम, परं तु बुद्धोऽशुभकर्मफलं दुःखं जानन् दुःखद्वेषी सन्नपि स स्वयLal मेवाशुभविपाकानि अप्रशस्तकमोणि कथं गृहातीति भावः ॥२॥
मूलम्--को नाम विद्वानशुभं हि वस्तु, गृह्णाति मत्वा किल यः स्वतन्त्रः।
सत्यं विजानन्नपि भाविताह'-कालादिनोदादशुभं हि लाति ॥३॥ टीका-उक्तविषय एव पुष्टिमाह 'को नाम' इत्यादिना । नामेति प्रसिद्धो, हीति चरणपूतौ । यत्तदोनित्यसम्बन्धात् स इत्यध्याहार्य, सकोऽस्ति 'विद्वान्'-पण्डितो यः 'स्वतन्त्र'-अपराधीनः सन् , किलेति' निश्चये 'मत्वा'-ज्ञात्वाऽपि विपाकं जाननपीत्यर्थः, 'अशुभं'-दुःखावह 'वस्तु' 'गृह्णाति'-आदत्ते कश्चिदबुधः परतन्त्रोऽजानन् वा अशुभं वस्तु गृह्णीयात् , परंतु बुद्धिमानपराधीनः फलं च विदन् कोऽशुभं वस्तु ग्रहीतुं शक्नोति ? इति भावः। अत्रोत्तरमाह-सत्यमित्यादिना, सत्यमिति भवतोक्तं | कथनं सत्पमस्तीत्यर्थः, परं तु 'विजानन्नपि'-फलं जानानोऽपि 'भावितादृक् कालादिनोदात्'-भाविनो-भविष्यन्तः तादृशःतथाविधाः सुखदुःखहेतव इत्यर्थः, ये कालादयः आदिशब्देन स्वभावादिग्रहणं, तेषां नोदात्-प्रेरणात् , हीति निश्चये, अशुभं 'लाति'-गृह्णाति ॥३॥
१ काळो सहाव नियइ, पुव्वकयं पुरिसकारणे पंच । समवाए सम्मत्तं, पगते होर मिच्छत्तं ॥१॥ 'भाविनो'-भविष्यन्तो ये तारशाः सुखदुःखहेतवः कालादयः पञ्च, तेषां 'नोदः-प्रेरणं तस्मात् ॥
विद्वान माह कोविताहक
Deseeeeee09680868680Geeee
' अशुभ