SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ जैनतत्वसार ॥ ५ ॥ 台合時自 टीका - जीवकर्मणोरनादित्वात् तयोः संयोगोऽप्यनादिसिद्ध:, तथापि पुराणानि कानिचित् कर्माणि कृपयति कानिचिन्नवानि च गृह्णातीति सम्बन्धेनोपस्थितोऽयं द्वितयः कर्मग्रहणाधिकार उच्यते- ' तादृकस्वभावादित्यादि' । इह' - अस्मिन् संसारे 'जीव' - आत्मा 'कर्माणि ' 'समाददीत ' - गृह्णीयात् । कथंभूतानि कर्माणि ? ' पुरः स्थितानि - यथायोगं प्राप्तानि । पुनः कथंभूतानि ? शुभाशुभानि - शुभानि अशुभानि चेति । अत्र हेतुत्रयमाह तादृगित्यादिना, 'ताडकस्वभावात्' - जीवस्य कर्मग्रहणस्वभावात् इत्येको हेतुः । पुनश्च 'नियतेः' - नियतिवशात् नियतेरवश्यंभावादित्यर्थः इति द्वितीयो हेतुः । पुनश्च 'भविष्यत्कालात् तादृशो भाविनः कालात् (इति तृतीयो हेतुः ) । चकाराकरणात् त्रयाणामध्येषां नियतिस्वभावकालानां समुदितानामेकीभावेन पारमार्थ्यादभेदो विवक्षितः । कथंभूतादस्माद् हेतुत्र्यादित्याह - 'शुभाशोभनभुक्तिहेतोः' इति - सुखदुःखभोग कारणादित्यर्थः ॥ १ ॥ मूलम् -- कर्माणि योगीन्द्र ! जडानि सन्ति, तानि स्वयं नाश्रयितुं क्षमन्ते । आत्मा तु बुद्धः स्वयमेव जानन्, कर्माण्यशस्तानि कथं हि लाति ! ||२|| टीका -- 'कर्माणीत्यादि' हे 'योगीन्द्र !' हे योगिराज ! शैवस्य जैनं प्रत्युक्तिः, 'कर्माणि जडानि' - अचेतनानि 'सन्ति ' 'तानि' कर्माणि 'स्वयं' - स्वत एव 'आश्रयितुं' - आश्रयणं कर्तुं जीवस्यावलम्बनं कर्तुमित्यर्थः, 'न क्षमन्ते'- न समर्थानि भवन्ति, अचेतनानि कर्माणि निमित्तं विना जीवमाश्रयितुं न प्रभवन्तीति भावः । तह्यत्मा तान्याददीत, इत्यपि परिहर्तुमाह- 'आत्मा वि ग्रहणवदशुभकर्मग्रहणं वर्तत इति निगइन् जैनाचार्यः शेादिकं प्रत्युत्तरयति "सत्यं विज्ञानन्" इत्यारभ्यान व मकाव्य पूर्वार्धपर्यन्नप्रत्थेनेत्यादि स्वयं ज्ञेयम् ॥ द्वितीयोऽ धिकारः ॥ ५ ॥
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy