SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ ॥ अथ द्वितीयोऽधिकारः॥ जीवानां शुभाशुभकर्मग्रहणं नवभिः श्लोकैराह मूलम्-'ताहकस्वभावानियतेर्भविष्य-कालाच्छुभाशोभनमुक्तिहेतोः। जीवस्तु कर्माणि समाददीत, शुभाशुभानीह पुरःस्थितानि ॥१॥ Gee000000@ce:6000000000 १जीवकर्मणोरनादित्वादयमनादिसिद्धः संयोगः, तथापि पुराणानि कानिचित् कर्माणि कृषति, कानिचिन्नवानि गृहणाति, इति, सम्पन्धेनायातोऽयं द्वितीयः कर्मग्रहणाधिकार उच्यते-तारकस्वभावादित्यादि, जीव: पुरस्थितानि यथायोग प्राप्तानि शुभाशुभानि कर्माणि 'समाददीत-गृहणोयादिति । तत्र हेतुत्रयमाह-तादृगिति जोवस्य फर्मग्रहणस्वभावात् पुनश्च नियतेरवश्यभावात् "नियतिर्भगवती बलीयसी' इत्युके, पुनश्च ताशात् भाविनः कालात् । चकाराकरणमत्र प्रयाणामप्येषां समुदितानामसभावादेकीभाव एवातः पारमार्थ्यादमेद एवेति न चकारः । कोरशादस्मादपि हेतुत्रयादपि? 'शुभाशो०' सुखदुःखभोगकारणातः । अत एव नियतिस्वभावकालैः प्रैर्य यादशानि कर्माणि पुरतः प्रापितानि तादृशानि गृह्णातीति पारवश्यं जीवस्य जैनै य॑ज्यते। तथा चोच्यते'तारशी जायते बुद्धि-र्व्यवसायश्च तादृशः । सहायास्ताहशा एव, यादृशी भवितव्यता ॥१॥ इदं हि शाखं प्रायः पृच्छकशैवाभिप्रायमाश्रित्योक्तमस्ति । शैवा हि जैनानिति वदन्ति-भो जैनाचार्याः जीवोऽयं सुखैषी सन् शुभानि कर्माणि जानन् गृह्णातु, परमसौ दुःखद्वेषी सन् अशुभानि कर्माणि कथं गृहणाति ? अतोऽशुभानि कर्माणि ग्रहीतुमनिच्छतोऽस्य कश्चिदोश्वरादिरशुभकर्मग्रहणे प्रेरको-वाच्यो यथा सर्वे भवन्मतं समञ्जसं स्यादिति पृच्छन्तं शैवजनं समधिगम्य जानतोऽपि जीवस्य प्रेरकादि विनैव शुभकर्म 606060699000000000000000
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy