________________
प्रथमोऽ धिकारः
जैनतस्वसार
यथा पुनरित्यध्याहार्यम् । यथा पुनः सुधासुधाभृच्छिलयोः, सुधा अमृतं सुधाभृत् चन्द्रः तस्य शिला पाषाणः चंद्रकान्त इत्यर्थः । अमृतचन्द्रकान्तयोः सहोत्थितो योगोऽस्ति । पुनदृष्टान्तरमाह-अथ अनन्तरं कर्तृवादिनां ये तु जगतः सकर्तृत्वमाहुस्तेषां मते इति शेषः। कर्तुः कारकस्य गुणानां सच्चादीनां चानादिसंसिद्धो योगोऽस्ति ॥८॥
जीवानां कर्मभ्यो मुक्तिः मूलम्-कर्मात्मनोरेवमनादि सिद्धो, योगोऽस्त्ययं केवलिनः समूचुः।
अस्यापि भेदो विदितस्तथाविधात्, सामग्ययोगात् 'कनकाइमनोरिव ॥९॥ टीका-अधुना फलितमाह कर्मात्मनोरित्यादिना । 'एव' मुक्तप्रकारेण 'कर्मात्मनो' कर्मजीवयोरयं पूर्वोक्तोऽनादिसिद्धोऽनाद्युत्पन्नो 'योगः' संयोगोऽस्ति इति 'केवलिनः' केवलज्ञानयुक्ताः 'समूचुः' कथितवन्तः । अस्यापीति 'अस्य' पूर्वोक्त1 स्यापि योगस्येति शेषः भेदः विदितः प्रसिद्धोऽस्ति । कुतः ? इत्याह-'तथाविधात्' तादृप्रकारकात् 'सामठ्ययोगात्' सामग्री
भावयोगात् तादृशः सामय्या योगादिति भावः। कयोरिवेत्याह-कनकाश्मनोरिव' सुवर्णपाषाणयोरिव पूर्व हेम पश्चात् पषाणो अथवा पूर्व पाषाणः पश्चात् सुवर्णमित्यादिको भेदो न वापि वक्तुं शक्यो द्वयोरपि युगपदेव सम्बन्धः ततोऽयमेतेषु वस्तुष्वनादिसंसिद्धो यथा सम्बन्धस्तथा जीवकर्मणोरप्यनादिसंसिद्धः सम्बन्ध इति भिन्नजात्योरपिस्वयं विभाव्यः ।।९।। इति प्रथमोऽधिकारः स०
१ पूर्व हेम पश्चात् पाषाणोऽथवा पूर्व पाषाणः पश्चात् सुवर्ण इत्यादिको भेदः क्यापि वक्तुं न शक्यः, द्वयोरपि समसमय एव सम्बन्धस्ततोऽयमेषु वस्तुषु अनादिसंसिद्धो यथा सम्बन्धः तथा जोव कर्मणोरपि अनादिसंसिद्धः सम्बन्धः इति भिन्नजात्योरपि स्वयं भाव्यः।
100000000000000000000000000
100009969090909090909090960