SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ 069606060690000000006900€ | चनप्रयोगः जीवानामरूपित्वात् कर्मणां च रूपित्वाद् भिन्ना जातिः तथा च सति भिन्नजात्योरनयोर्योगः कथमजायते ? इति प्रश्नाभिप्रायः । अत्रोत्तरमाह-'एषः' पूर्वोक्तो योगः 'इह' अस्मिल्लोके जीवकर्मणोर्वा 'अनादिसंसिद्धः' अनादिकालेन निष्पन्नः | 'उच्यते' कथ्यते । अत्र दृष्टान्तद्वयमाह-हेमाश्मनोवेत्यादिना, वाशब्दोत्र इव शब्दार्थः, दृष्टान्तद्वयेऽपि च डमरुकमणिन्यायेनाभिसम्बध्यते । हेमाश्मनोरिव स्वर्णपाषाणयोरिव अरणिचित्रभान्वोरिख अरणिकाष्ठवहेरिव च। सतेजस्कनिस्तेजस्कत्वादिप्रकारभिन्नजात्योर्यथा सुवर्णपाषाणयोरिव अरणिधूमध्वजयोरिव वा योगो भवति तथा भिन्नजात्योर्जीवकर्मणोरप्यनादिसंसिद्धो योगो विज्ञेय इत्यर्थः ॥७॥ मूलम्--दुग्धाज्ययोर्वा युगपद्भवोऽस्त्ययं, यथा पुनः पावकसूर्यकान्तयोः।। सुधा 'सुधाभृच्छिलयोः सहोत्थितः, कर्तुर्गुणा'नामथ कर्तृवादिनाम् ॥८॥ टीका-पक्षान्तरेणोक्तविषये दृष्टान्तचतुष्टयमाह-दुग्धाज्ययोर्वेत्यादिना । 'वा' अथवा अयं पूर्वोक्तो योगो युगपद्भवोऽस्ति | एक समयभावी वर्तते । कथम् इति ? आह-दुग्धाज्ययोर्दुग्धघृतयोः इवपदस्याध्याहारो विधेयः । दृष्टान्तरमाह-यथा पुनरित्यादिना पुनर्यथा पावकसूर्यकान्तयोः अग्रिसूर्यकान्तमण्योः सहोत्थितो युगपदुत्पन्नो योगोऽस्ति । पुनदृष्टान्तरमाह सुधेत्यादिना, १ चन्द्रकान्नयोः । २ ये तु जगतः सकर्तृत्वमाहुस्तेषां कर्तृवादिना मते यथा कर्तुर्गुणानां च सत्त्वादीनां मिथ सम्बन्धोऽनादिसंसिद्धः न हि निर्गुणः कर्ता जगत्करणे समर्थों भवितुमर्हति, कर्तुनिः क्रियत्वान्निरञ्जनत्यत् सगुणत्वं न स्यात् तदभावे च कर्तुत्वं न सम्भवतीति; एवमपि न वक्तुं शक्यं यत्कर्ता सृष्टिकर्मणि प्रवृत्तः सगुणोऽन्यथा निर्गुणः । एवमुच्यमाने सति कर्तुरनेकस्वभावत्वादनित्यत्वं तथा तु कर्तुरभावः स्यात् । इदं तु कर्तृवादिनां न मतम, तन्मते च कर्तरि सगुणत्वं निर्गुणत्वं च वयमपि दक्तव्यं यथा निरजने निःक्रिये फर्तरि सगुगत्वमम्तीनं तयारमन्पपि कर्मसंयोगः । 00:0606906060000000000000€
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy