________________
जनतत्त्वसार
॥३॥
99996
टीका -- अतस्तु इत्यादि । तु शब्दोऽत्र एवंशब्दार्थः 'अतस्तु' अस्मादेव कारणात् 'इह' अस्मिँल्लोके कर्माणि 'समग्रलोकाकाशाश्रितानि सकललोकाकाशं संश्रितानि सन्तीति शेषः । कथम्भूतानि कर्माणि ? 'निरन्तराणि' अविच्छेदेन व्यवस्थितानि 'तेनैव' इति तेनैव कारणेन 'हि' इति निश्रये 'जीवाः' आत्मानः 'कर्मावृताः कर्मभिरावृताः कर्मावरणयुक्ता इत्यर्थः भवन्ति । अत्र दृष्टान्तमाह — 'वसूनीव मृदाविलानि' यथा 'वसूनि' सुवर्णानि रत्नानि वा 'मृदा' मृत्तिकया 'आविलानि' युक्तानि आवृतानि इति यावत्, भवन्ति । यथा खन्यादौ सुवर्णानि रत्नानि वा समुत्पयमानानि मृत्तिकया च्छन्नानीवन्येवसमुत्पद्यन्ते तथा जीवा अपि संसारस्थाः कर्मावृता एव भवन्तीति भावः ॥ ६ ॥
जीवकर्माणोरनादिसम्बन्धं श्लोकद्वयेनाह ।
मूलम् -- कथं विभो ! कर्मण आत्मनश्च योगोऽयमेषोऽजनि 'भिन्नजात्योः । अनादिसंसिद्ध इहोच्यते यो, 'हेमाइमनोवारणिचित्रभान्वोः ||७||
टीका -- कथमित्यादि । 'विभो !' हे प्रभो ! कर्मण आत्मनश्च 'अयं' पूर्वोक्तः 'योगः' संयोगः 'कथं' केन प्रकारेण 'अ'अजायत ? । कथम्भूतयोः कर्माऽऽत्मनोः ? 'भिन्नजात्योः' भिना जातिः - स्त्रभावः सत्ता वा ययोस्तयोः उभयापेक्षया द्विव
१ जीवानामरूपित्वात् कर्मणां रूपित्वाद् भिन्ना जातिः स्वभावः सत्ता वा ययोस्तौ भिन्नजाती तयोः संयोगोऽनादिसंसिद्धः अनाद्युत्पन्न इत्यर्थः । २ कयोरिय हेमाइमनोरिष स्वर्णपाषाणयोरिव सतेजस्कनिस्तेजस्कयोरथया हृतबद्धयोरथवा गुरुटध्वोरथवा स्निग्धास्निग्धयोरित्यादिभिः प्रकारैर्भिन्नजात्योरेवमुत्तरेषामपि पदार्थानां यथासम्भवं भिन्नजातित्वं स्वयमूह्यम् ॥
0000000000000
प्रथमोऽ धिकारः
॥ ३ ॥