________________
eeeeeeeeeeeeeeeeeeeeeeeee
म्भूतानि तानि कर्माणि ? 'शुभाशुभानि' शुभानि चाशुभानि चेति द्वन्द्वः ॥४॥
मूलम्-अनन्तसङ्कथाः किल कर्मवर्गणा, जीवप्रदेशे परिकल्प्य 'एकके ।
शुभाशुभाः केवलदृष्टिदृष्टा, मुक्ता अमूभ्यः खलु ते हि सिद्धाः ॥५॥ टीका-अनन्तसङ्ख्या इत्यादि 'किल' इति निश्चये 'एकके' एकैकस्मिन् जीवप्रदेशे 'कर्मवर्गणाः' कमसमूहाः 'अनन्तसङ्ख्याः' असङ्ख्याताः सन्तीति शेषः, कथम्भूते जीवप्रदेशे ? 'परिकल्प्ये' मनोबुद्धया परिकल्पनीये, कथम्भूताः कर्मवर्गणाः ? 'शुभाशुभा' शिवाशिवाः, पुनः कथम्भूताः १ 'केवलदृष्टिदृष्टाः' केवलदृष्टिः-केवलज्ञानं तया दृष्टाः-दर्शनगोचरीकृताः केवलज्ञान
गम्या इति यावत् । मुक्ता इत्यादि खलु शब्दो निश्चयार्थे हि शब्दः चरणपूर्ती ते पूर्वोक्ता जीवा 'अमूम्यः' पूर्वोक्ताम्यः कर्मवर्गCणाभ्यो 'मुक्ताः' कर्मवर्गणा विरहिता इत्यर्थः सिद्धा उच्यन्ते इति शेषः ॥५॥
कर्माणि समग्रलोकाकाशश्रितानि-अतो जीवाः कर्मभिरावृताः। मूलम्-अतस्तु कर्माणि समग्रलोका-काशाश्रितानीह निरन्तराणि ।
तेनैव जीवा हि भवन्ति कर्मा-वृतावसूनीव मृदाविलानि ॥६॥ १ एकस्य जीवस्यासडयाताः प्रदेशाः तेषामेकस्मिन्नपि मनोबुद्धया परिकल्प्ये प्रदेशेऽनन्तकर्मवर्गणाः सन्तीति । २ वसूनि स्वर्णानि रत्नानि वा, यथा खन्यादौ स्वर्णानि रत्नानि वा समुत्पद्यमानानि मृदा मृत्तिकया सह व्याप्तान्येव च्छन्नान्येव समुत्पद्यन्ते तथा जीवा अपि संसारस्थाः कर्मावृता एव भवन्तीति सम्बन्धः ।
180ceeeeeeeeeeeeeeeeeeeeee: