________________
जन
अष्टादशोऽधिकारः
%
तत्वसार
टीकायाम्
%A
॥१२६॥
5
मूलम्-लोकेऽप्यनाकारमयस्य वस्तुनः, आकारभावः परिदृश्यते यथा ।
आज्ञास्त्यसौ भागवंतीति वाचं-वाचं तु लेखाक्रियते मनुष्यैः ॥३॥ तो लङ्घते यः स तदा न साधु-नोल्लङ्घते सैष जनेषु साधुः।
आम्नायशास्त्रेषु मरुद्यवोः स्यात्, तथाऽऽकृतिर्मण्डलतो विलेख्या ॥४॥ टीका-उक्तविषयमेवाह-लोकेऽपीत्यादिना 'लोकेऽपि'-संसारेऽपि, 'अनाकारमयस्य वस्तुनः'-आकाररहितस्य पदार्थस्य, 'आकारभावः'-आकृतेः सत्ता, 'परिदृश्यते'-अवलोक्यते, एतदेव दर्शयति-यथेत्यादिना 'यथा '-येन प्रकारेण, 'असौ'-विवक्षिता, 'भागवती'-भगवत्सम्बन्धिनी, 'आज्ञाऽस्ति'-आदेशो विद्यते, 'एतत् '-उक्ता, 'तु' शब्दश्चरणपूत्तौं, 'मनुष्यैः'-जनैः, 'वाचंवाचम्'-उक्तोक्ता, लेखाक्रियते'-रेखाविधीयते, भागवत्याज्ञाऽमृर्ता सा चाऽप्य-2 मूतस्य भगवतस्तथाऽपि तस्या आज्ञाया जनै रेखाक्रियत इतिभावः, एतदेव स्पष्टयति-तामित्यादिना यदि यो जनः | 'तां'-भागवतीमाज्ञां, 'लङ्घते '-व्यतिक्राम्यति, 'तदा'-तर्हि, 'सः'-जनः, 'साधुः'-भव्यो नास्ति, तथा यः 'ताम्'
१. आशा स्वयं साक्षादाकाररहिता परं तस्या अपि रेखारूप आकारः कल्प्यते या चाऽऽक्षा साऽपि अमूर्तस्य भगवदादेः | स्वामिनः प्रतापस्य सम्बन्धिनी तेन पूर्व भगवदादिप्रतापोऽमूर्तः अमूर्तस्याऽप्यस्याऽमूर्ता आज्ञा अस्या अपि अमूर्तीया | रेखारूप आकारः सद्भिः कल्पित इत्यर्थः। २. स्वामिसम्बन्धिनी । ३. उक्तोक्ता । ४. रेखा । ५. आशां। ६. भव्य । ७. आगमशाखे, मन्त्रशास्त्रे । ८. मरुद्वायुः द्योश्च नभः मरुच्च द्योश्च मरुद्द्यावी तयोर्मरुद्यवोः वायुनभसोः । ९ मण्डलकारणहेतुनाकृतिविलेण्या यथा मरुत्मण्डलं चाऽऽकाशमण्डलं चेति उक्त्वा तदाकारो लिख्यते ॥
%
%
%
%
%