________________
टीका-भगवत्प्रतिमापूजाविषय एवाऽवशिष्टविषयमाह-यद्वाऽस्त्वित्यादिना 'यद्वा'-अथवा, 'अस्तु'-पूर्वोक्तविषयस्तिष्ठतु, किन्तु 'अनाकारवतोऽपि'-आकाररहितस्याऽपि, ‘भगवत्सुनाम्नः'-भगवानिति शोभनं नाम यस्य स तथा एवम्भृतस्य, 'सिद्धस्य'-सिद्धि प्राप्तस्य, 'इदं '-प्रसिद्धं, 'शुद्धम् '-निर्मलम् , सर्वदोषरहितमितिभावः, 'बिम्बंप्रतिमा, 'तत्तत्स्वचित्ताशयचिन्तिताशाम् '-तत् तत्प्रकारकमनोभावेन विचारितामाशां, 'साक्षादिव '-प्रत्यक्षसिद्धवत . 'अशङ्क'-शङ्कारहितम् , यथास्यात्तथा निस्सन्देहमितिभावः, 'वितरतु'-ददातु, दातुं शक्नोतीतिभावः ॥१॥
मूलम्-यत्स्थापना सा स्वकचित्तकल्प्या, संतोऽसतो वास्त्विह वस्तुनः सा ।
सर्वाऽपि यादृग्निजभावसेविता, ताइक्फलं यच्छति नात्र संशयः ॥२॥ टीका-अत्र पुष्टिमाह-यत्स्थापनेत्यादिना यत्'-या, ' स्थापना अस्ति'-सा स्थापना, 'स्वकचित्तकल्प्यास्वचित्तेन कल्पनीया भवति, 'सा'-स्थापना, 'इह'-अस्मिन् संसारे, 'सतः'-विद्यमानस्य, 'वा'-अथवा, 'असतःअविद्यमानस्य, 'वस्तुनः'-पदार्थस्य, 'अस्तु'-स्यात् , किन्तु सा 'सर्वाऽपि'-कृत्स्नाऽपि, 'यादृग्निजभावसेविता'यादृश निजभावेन सेविता भवति, 'तादृक्-तथाविधं फलं, 'यच्छति'-ददाति, 'अत्र'-अस्मिन् विषये, 'संशयःशङ्का नास्ति ॥२॥
१. विद्यमानस्य अविद्यमानस्य वा।