SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ जैन तस्वसार टीकायाम् ॥ १२५ ॥ भगवान् ' संसारकृतावतारः - अन्तिमभवे विहितावतारः सन्, ' यादृग् ' - यत्प्रकारक:, ' अभूत् 'बभूव, 'तादृक् ' - तत्प्रकारकः, 'महद्भिः ' - गुरुभिर्जनैः, 'न्यासि - स्थापितः, संसारावतारक्रमेण यादृगाकार भगवानवतीर्णस्तादृगेव भगवतः प्रतिमा महात्मभिः स्थापितेतिभावः, तर्ह्यन्त्यभवावतारक्रमेण तत्प्रतिमां विधाय सा कथं नार्च्यत इति शङ्कां परिहर्तुमाहया येत्यादि ' हि ' शब्दश्वशब्दश्चरणपूत, ' येभ्यः '- जनेभ्यः, या या ' अवस्था ' -दशा, भवाकृतिरितिभावः, ' रुचिता - रुचिं प्राप्ता, ' तदर्थैः ' - तदभिलाषिभिः, ' तैः ' -जनैः, ' सा' - तथैव प्रतिमा, 'परिपूज्यते ' - अर्च्यते ॥ ४१ ॥ नास्तिकस्याऽजीवरूपस्थापनासेवाफलप्रतिपादनोक्तिलेशः सप्तदशोऽधिकारः अथ अष्टादशोऽधिकारः निराकारस्याsपि पूजनं स्थापनां तदचनया लाभञ्च एकोनविंशतिश्लोकैराहमूलम् - यद्वाऽस्त्वनाकारवतोऽपि बिम्बं सिद्धेस्य शुद्धं भगवत्सुनाम्नः । तत्तत्स्वचित्ताशयचिन्तिताशां, साक्षादिवेदं वितरत्वशङ्कम् ॥ १ ॥ १. भगवान् इति शोभनं नाम यस्य सिद्धस्य स तथा तस्य यो हि सिद्धो भगवान् इत्युच्यते । २. सिद्धवत् । अष्टादशोऽचिकारः ॥ १२५ ॥
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy