________________
कारणात् , ' एतत् '-पूर्वोक्तम् , ' तदीयं प्रतिबिम्बं कृत्वा'-तत्सम्बन्धिनी प्रतिमां विधाय, 'एवम् '-उक्तरीत्या, 'कथं | पूज्यते ?'-केन कारणेनाय॑ते ? एवं करणे दोषमाह-अत्रेत्यादिना 'अत्र'-अस्मिन् संसारे, 'तु' शब्दश्चरणपूत्तौं, 'अतवस्तुनि'-तन्निपदार्थे, ' यस्तद्ग्रहः'-तत्पदार्थत्वेन ग्रहणमस्ति, 'सः'-दोषोऽपराधः, भवति, अभगवति भगवानयं इति या बुद्धिः सा दोषरूपा भवतीतिभावः ।। ३८-३९॥ मूलम्-साधूच्यतेऽदस्त्वयका विचारिणा-ऽनाकारिणस्त्वाऽऽकतिरेव नेष्टा।
इदं तु यद्भागवतं हि बिम्ब, तच्चावताराकृतिक्लुप्तरूपम् ॥४०॥ टीका-अस्योत्तरमाह-साध्वित्यादिना 'विचारिणा'-विचारशीलत्वेन, ' त्वयका'-त्वया, 'अदः'-एतत्पूर्वोक्तमित्यर्थः, 'साधुच्यते'-सत्यं कथ्यते, यत् 'अनाकारिणः'-आकाररहितस्य पदार्थस्य, 'तु' शब्दश्चरणपूर्ती, 'एवे 'ति निश्चये, 'आकृतिः'-आकारः, 'इष्टा'-अभीष्टा, नास्ति 'तु'-परन्तु, 'ही'ति निश्चयेन, 'इदं '-पूर्वोक्तम् , यत् 'भागवतं बिम्बं'-भगवत्सम्बन्धिनी प्रतिमा, अस्ति 'च'-शब्दश्चरणपूर्ती, 'तत्'-बिम्बम् , ' अवताराकृतिक्लप्तरूपम् '-अवतारस्य-भवस्य आकृत्या-आकारेण क्लप्तां-समर्थितम् रूपं यस्य तत् , 'भवाकारापेक्षया'-निर्मितस्वरूपमितिभावोऽस्ति ॥४०॥ मूलम्-याहक्तु संसारकृतावतारोऽभून्यासि तादृग्भगवान्महद्भिः।
या या ह्यवस्था रुचिता च येभ्यः, साहो तदर्थैः परिपूज्यते तैः ॥ ४१॥ टीका-विम्बस्याऽवताराकृतिक्लप्तस्वरूपत्वे हेतुमाह-यादृगित्यादिना 'अहो!'-इत्यामन्त्रणे, 'तु' शब्दो विनिश्चये,