SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ SAGAR आज्ञाम् , ' नोल्लाते -न व्यतिक्राम्यति, 'सः'-एष विवक्षितः, सोचिलोपे, चेदित्यादिना चरणपूर्ती लोपेऽपि सन्धिः, 'जनेषु'-मनुष्याणाम् मध्ये, 'साधुः'-भव्योऽस्ति, उदाहरणान्तरमाह-आम्नायेत्यादिना 'तथे 'ति समुच्चये, 'आम्नायशास्त्रेषु'-आगमशास्त्रेषु मन्त्रशास्त्रेषु वा, 'मरुधवोः'-वाय्याकाशयोः, 'मण्डलतः'-मण्डलद्वारा, 'आकृतिविलेख्या स्यात् '-आकारः संलेख्यो भवेत् , एतत्मरुन्मण्डलमेतच्चाऽऽकाशमण्डलमित्युक्त्वा जनैमरुदाकाशयोराकारो विलिख्यत इतिभावः ॥ ३-४॥ मूलम्-स्वरोदयस्याऽथ विचारशास्त्रे, तत्त्वानि पश्चापि च साकृतीनि । अनाकृतं वस्त्विति साकृतं यथा, स्यादित्थमाकार इहाऽप्यनाकृतेः ॥५॥ टीका-उदाहरणान्तरपूर्वकं फलितमाह-स्वरोदयेत्यादिना ' अथे' ति समुच्चये, 'च' शब्दश्चरणपूर्ती, 'विचारशास्त्रे'-प्रश्नादिविचारागमे, ' स्वरोदयस्य'-स्वरोदयसम्बन्धीति, 'पश्चापि'-पञ्चसङ्ख्याकान्यपि, 'तत्त्वानि'-पृथिव्यप्तेजोवाय्वाकाशलक्षणानि, ' साकृतीनि'-आकारसहितानि, उच्यन्ते फलितमाह-अनाकृतमित्यादिना ' यथा'-येन प्रकारेण, ' इति '-उक्तरीत्या, 'अनाकृतम्'-आकाररहितम् वस्तु, 'साकृतम् '-आकारसहितम् मन्यते, ' इत्थम् '-अनया रीत्या, 'इह'-अस्मिन्संसारे, 'अनाकृतेरपि'-आकाररहितस्याऽपि, सिद्धस्याऽपीतिभावः, 'आकारः स्यात् '-आकृतिर्भवति ॥५॥ १. पृथिन्यतेजोवाय्वाकाशलक्षणानि । २. आकृतिराकृतमाकारः भावे कः अनाकृतमनाकारं । ३. सिद्धस्य ।
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy