________________
जैनतत्वसार
सप्तदशोऽधिकार
टीकायाम्
.१२३ ॥
दुर्बलवंशसम्भवो जनः, ' मौलम्'-मूले जीतम् , 'राजन्यकं'-राजसम्बधिनम् पुरुषम्, 'प्रशास्ति'-शासनविषयं करोति, परन्तु ' यदा'-यस्मिन्काले, 'कश्चित् '-कोऽपि, ' तदुक्तं न करोति '-दुर्बलवंशोत्पन्नपुरुषकथनं न मन्यते, तदा 'स'तत् कथनाऽमंता जनः, 'तेन'-राज्यस्थितदुर्बलवंशसम्भवपुरुषेण, 'नन्दवदेव'-नन्दनामकराजतुल्यत्वेनैव, 'शास्यते - शिक्षा दाप्यते, दण्ड्यत इतिभावः ॥ ३२-३३ ॥
मूलम्-विचार्यते चेन्मनसा मनुष्य-मौलो गुणी राजसुतः स योग्यः।
परन्तु यः क्षुद्रकुलोपि राजा, स एव सेव्यः खलु पश्चपूजितः ॥ ३४॥ ___टीका-उक्तविषयमेव स्पष्टयति-विचार्यत इत्यादिना उक्तदशायाम् 'चेत्'-यद्यपि, 'मनसा'-हृदयेन, 'मनुष्यैःजनैः, एतत् ‘विचार्यते'-चिन्त्यते, 'यत्'-यः, 'मौलः'-मूलभवः, तथा 'गुणी'-गुणयुक्तः, 'राजसुतः'-राजपुत्रोऽस्ति, 'सः'-राजपुत्रः, 'योग्यः'-अर्हः, शासनयोग्य इतिभावोऽस्ति, परन्तु तथापि 'खल्वि' ति निश्चयेन, यः 'क्षुद्रकुलोपि'-नीचवंशोत्पन्नोऽपि, 'पञ्चपूजितः'-पञ्चजनार्चितः, 'राजा'-नृपो भवति, 'सः'-पूर्वोक्त एव, 'सेव्यः'सेवनाहः, सर्वजनैः प्रभुत्वेन मानार्ह इतिभावः ॥ ३४ ॥
मूलम्-एवं हि चिन्तामणिमुख्यमेतद् , वस्तु प्रधानं निजकस्वभावात् ।
ततोऽपि मान्यं भुवि पारमेश्वरं, बिम्बं यतः पञ्चभिरत्र पूजितम् ॥ ३५॥ टीका-दान्तिविषयमाह-एवमित्यादिना 'ही'ति निश्चयेन, 'एवम् '-अनया रीत्या, 'एतत् '-पूर्वोक्तम् ,
योग्य इतिभावोऽस्ति, परन्त प्रणा -गुणयुक्तः, राजसुतः
सेवनाहः, सनाचवंशोत्पन्नोऽपि, ‘पञ्चपूजितः