SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ टीका-अस्योत्तरमाह-अहो इत्यादिना 'अहो!' इत्यामन्त्रणे, 'हे विचारिन् !' हे विचारशील !, 'एवम् '-उक्तरीत्या, त्वम् 'अविचारितं मा वद '-अविमृष्टं मा कथय, 'इह '-अस्मिन् जगति संसारे, त्वम् ‘पश्य '-अवलोकनं कुरु, 'यत्'-यद्वस्तु, 'मूलतः'-मूलात् , 'गुणि'-गुणयुक्तं, 'प्रतीतम्'-प्रसिद्धमस्ति, 'तत्'-वस्तु, 'पञ्चकृतं'पञ्चभिर्जनैर्मतं सत् , 'ततोऽपि '-तस्मादपि, पूर्वापेक्षयाऽपीतिभावः, 'गुणाढ्यम् '-गुणयुक्तम् भवति ॥ ३१॥ मूलम्-यथाहि कश्चित्किल राजपुत्रः, प्रायेण वीर्यादिगुणास्पदं स्यात् । तं प्रोज्झ्य चेहर्बलवंशसम्भव, पुण्याच राज्ये विनिवेशयन्ति ॥ ३२ ॥ प्रामाणिकाः पञ्च यदा तदा त्वयं, राजन्यकं मौलमपि प्रशास्ति । यदा तदुक्तं न करोति कश्चित्स शास्यते नन्दवदेव तेन ॥३३॥ टीका-उक्तकथनस्योदाहरणमाह-यथाहीत्यादिना ' यथाही 'ति तद्यथेत्यर्थः, 'किले'ति निश्चये, 'कश्चित् '-कोऽपि, 'राजपुत्रः'-क्षत्रियसुतः, 'प्रायेण '-बहुधा, 'वीर्यादिगुणास्पदं स्यात् '-शौर्यादिगुणानां स्थानं भवेत् , 'तं'-राजपुत्रं, 'प्रोज्झ्य'-त्यक्त्वा, ' चेत् '-यदि, 'यदा'-यस्मिन्काले, 'पञ्च प्रामाणिकाः'-पञ्चसङ्खथाकाः प्रामाणिकजनाः, 'पुण्यात्'-पुण्यवशात् , पूर्वपुण्येनेत्यर्थः, 'च' शब्दश्चरणपूर्ती, 'दुर्बलवंशसम्भवम् '-नीचकुलोत्पन्नम्, 'कश्चित् 'पुरुषम् , ' राज्ये विनिवेशयन्ति'-राज्यशासने स्थापयन्ति, 'तदा'-तस्मिन् काले, 'तु' शब्दश्चरणपूत्तौं, 'अयं' १. नन्दनामराजेन ( राजा ? ) इव शिक्षा दाप्यते । CATEGORIES
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy