________________
+
+
सप्तदशोऽ
घिकार:
जैनतत्त्वसार टीकायाम् ॥ १२२॥
आराधिता अङ्गिमतं दिशन्ति, नैतागर्चा किल पारमेश्वरी।
अहो यदेषा सुलभोपलादि-मयी तदा किं सदृशी त्वऽमीभिः ?॥३०॥ टीका-दृष्टान्तदार्टान्तवैषम्यमवबुध्य प्रश्नयति-सत्यमित्यादिना 'हे मुने!'-हे साधो :, 'अदः सत्यमस्ति'पूर्वोक्तं भवतः कथनं यथार्थ भवति, 'परं'-परन्तु, य 'एते '-पूर्वोक्ताः, 'दक्षिणावर्त्तमुखाः पदार्थाः स्युः'-दक्षिणावर्त्तकादयः पदार्थाः सन्ति ते, 'अजीववन्तोऽपि -जीवरहिता अपि, अप्राणिनोऽपीत्यर्थः, 'विशिष्टजातिभेदात् '-विशेषप्रकारकजातिभेदेन, 'तथे' ति समुच्चये, “दुर्लभवस्तुभावात् '-दुःखेन लभ्यपदार्थसद्भावेन, हेतौ पश्चमी 'आराधिताः'| सेविताः सन्तः, 'अङ्गिमतं दिशन्ति '-प्राणिमनोरथं ददाति, परन्तु 'अहो!'-इत्यामन्त्रणे, 'किले 'ति निश्चयेन, 'पारमे- | श्वरी'-परमेश्वरसम्बन्धिनी, 'अर्चा'-प्रतिमा, 'एताहग्'-उक्तप्रकारा विशिष्टजातिभिन्ना, दुर्लभवस्तुभावयुक्ता चेत्यर्थः, नास्ति, अत्र हेतुमाह-यदित्यादिना ' यत्'-यस्मात् कारणात् , 'एषा'-पारमेश्वरी अर्चा, 'सुलभा '-सुखेन लभ्या, तथा 'उपलादिमयी'-पाषाणादिनिर्मिताऽस्ति, 'तदा'-तर्हि, 'तु' शब्दो विशेषणार्थः, 'अमीभिः'-दक्षिणावर्तकादिभिः, 'सदृशी'-तुल्या, 'किं'-कथम् भवितुम् शक्नोति ? ॥ २९-३०॥
मूलम्-अहो ! विचारिन्नविचारितं मा, वदस्त्वमेवं जगतीह पश्य ।
यन्मूलतो वस्तु गुणि प्रतीतं, ततोऽपि यत्पञ्चकृतं गुणाढ्यम् ॥ ३१ ॥ १. दक्षिणावर्तादिभिः॥
जहा.पारस
H
॥१२२॥